SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ उपमिती अ.८-प्र. ॥७३०॥ “त्रीणि मानुषाणि तदनु प्रहेतव्यावार्ताशयरौद्राभिसन्धिनामानौ द्वौ पुरुषो तयोश्च परिचारिका यास्यन्ति स्वत एव कृष्णनीलकपोताभि"धाना लेश्या इति गोत्रेण प्रसिद्धास्तिस्रो नार्यः वयं तु तावत्प्रमत्ततानदी पुनः संस्थाप्य प्रवाहयामो मण्डपादीनि च भूयः समारयामः, "एवं च कुर्वतां भविष्यत्यक्लेशेनैवास्माकं प्रभाव इति,” ततः प्रतिभातं तन्मत्रिणो वचनं सर्वेषामपि महामोहादिभूभुजा, ततस्तैस्तत्समर्पित वाक्येन प्रारब्धं क्रियया-ततो मे निकटस्थेषु, तेषु जातेषु सुन्दरि! । पूर्वोदितेषु सर्वेषु, यज्जातं तन्निशामय ॥ ४४१॥ तामालोकयतो 8| गौरवं गुर्वी, यशस्सन्मानपूजनाम् । आत्मनश्चित्तकल्लोलाः, समुत्पन्ना ममेदृशाः॥४४२॥ यदुत-"अहो ममातुलं तेजस्तथाऽहो मम गौरवम् । | "अहो जगति पाण्डित्यमन्यासाधारणं मम ॥ ४४३ ॥ अहो युगप्रधानोऽहं, यथाऽतिक्रान्तभाविनोः । कालयोरपि मादृक्षो, न भूतो न “भविष्यति ॥ ४४४ ॥ सर्वा विद्याः कलाः सर्वाः, सर्वे चातिशयाः परम् । अहो विमुच्य भुवनं, मय्येव ननु संस्थिताः ॥ ४४५ ॥ "नरेन्द्रः पूर्वपर्याये, सुरूपो भोगलालितः । अधुना त्वीदृशः सूरिरहो नाहं लघुः पुमान् ॥ ४४६ ॥ महत्कुलं महत्तेजो, महती श्रीर्म"हत्तपः । महती च मम प्रज्ञा, सर्व हि महतां महत् ॥ ४४७ ॥ एवंविधविकल्पैश्च, साहङ्कारस्य मे तदा । समं तेनानुबन्धेन, शैल-| | "राजो विजृम्भितः ॥ ४४८ ।। तथा—यत्रासौ तत्र नियमान्मिध्यादर्शनवश्यता। ज्ञानसंवरणस्यापि, विलासो विद्यते ध्रुवः ।। ४४९ ॥ "ताभ्यां वशीकृतश्चाहं, मलिनीभूतचेतनः । जानन्नपि न जानामि, शास्त्रगर्भार्थमजसा ॥ ४५० ॥ पठामि पाठयाम्यन्यं, व्याचक्षे शा"वसंहतिम् । भावार्थ न च बुध्येऽहं, तद्वशीभूतमानसः ॥ ४५१ ॥ केवलं मे परिभ्रष्टं, सार्ध पूर्वचतुष्टयम् । पाश्चात्यं हन्त तत्काले, "शेषज्ञानं न विस्मृतम् ॥ ४५२ ॥ अत्रान्तरे प्रयत्नेन, चित्तवृत्तौ ममानधे!। प्रवाहिता नदी तूर्ण, रिपुभिः सा प्रमत्तता ॥ ४५३ ॥ ॥७३० "ततो विजृम्भितान्युच्चैर्निजवीर्येण सुन्दरि ! । तानि गौरवसंज्ञानि, मानुषाणि विशेषतः ॥ ४५४ ॥ कथं -ईदृशः शिष्यवर्गो मे, वस्त्र CAT Jin Education Intem For Private & Personal Use Only www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy