SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ उपमितौ अ.८-प्र. ॥७२९॥ किं च ते देवास्ते महाभागा, मुनयस्ते च सज्जनाः । समाकृष्टा गुणैः सर्वनम्राः किङ्करतां गताः ॥ ४२४॥ तथाऽन्तेवासिनोऽनेके, पण्डिता विनयोद्यताः । स्वीया गच्छान्तरेभ्यश्च, मम पार्श्वमुपागताः ॥ ४२५ ॥ ततो विचरतश्चित्रप्रामाकरपुरादिषु । कुर्वतश्च प्रबन्धेन, व्याख्यानमतिसुन्दरम् ॥ ४२६॥ अनेकवादसट्टाटव्यां वाक्खड्गयष्टिना । कुतीथिमत्तमातङ्गकुम्भनिर्भेदकारिणः ॥ ४२७ ॥ स्वशास्त्रपरशास्त्राणां, स्फुटगर्भार्थदर्शिनः । पूजितस्य महाराजसामन्तपरमेश्वरैः ॥ ४२८ ।। उद्दामवर्णसत्कीर्तिशब्दश्लाघापुरःसरः । उल्लासितो यशोरूपो, जनै, पटहोऽनघः ॥४२९॥ चतुर्भिः कलापकम् । तथा-धन्योऽसि कृतकृत्योऽसि, भूषिता नाथ ! मेदिनी। त्वयाऽवतरता मर्ये, परमब्रह्मरूपिणा ॥४३०॥ निर्मिथ्यं सत्यसिंहस्त्वमित्येवं नतमस्तकाः। तीथिका अपि मां सर्वे, स्तुवन्तः पर्युपासते ॥४३१ ॥ युग्ममाला मोहप्राएवमाचार्यके जाते, सर्वलोकमनोहरे । भद्रेऽगृहीतसङ्केते !, यज्जातं तन्निबोध में ॥ ४३२ ॥ तां तादृशीं समुद्वीक्ष्य, समृद्धिं भुवनाद्भ-I बल्यं ताम् । ईय॑येव महापापा, रुष्टा मे भवितव्यता ॥ ४३३ ॥ चिन्तितं च तया हन्त, प्रतिपन्नः पुरा मया । योऽसाववसरस्तेषां, महामो-18 हादिभभुजाम् ॥ ४३४ ॥ स एष वर्तते लग्नः, साम्प्रतं कार्यसाधकः । आशाभृतो वराकास्ते, पुरा मद्वाक्यतः स्थिता राला लक्षयाम्येनं, प्रस्तावमधुनातनम् । येन ते लब्धमाहात्म्या, जायन्ते सुखभाजनम् ॥ ४३६॥ त्रिभिर्विशेषकम् । एवं निश्चित्य ते सर्वे, भद्रे! पापोदयादयः । ज्ञापिताः कार्यगर्भार्थ, भवितव्यतया तया ॥४३७॥ किं च ते कर्मपरिणामाद्यास्ते च मे बन्धवोऽनघाः । विमदा नष्ट चेष्टाकाः, स्वशक्त्या विहितास्तया ॥ ४३८ ॥ ततश्च-पापोदयं पुरस्कृत्य, महामोहाद्यस्तदा । पुनः संस्थापनां कृत्वा, प्रवृत्ता मम स|म्मुखम् ।। ४३९ ।। केवलं जातशङ्कुस्तैदृष्टात्यन्तभयैः पुरा । कः स्यानो विजयोपाय, इति प्रारम्भि मन्त्रणम् ॥ ४४०॥ "विषयाभिला ॥७२९॥ "षेणोक्तं-इदमत्र प्राप्तकालं-अभ्यभिवतु तावत्तस्य समिथ्यादर्शनो ज्ञानसंवरणः निकटीभवन्तु शैलराजसहितानि गौरवाभिधानानि Jain Education in For Private & Personel Use Only Mw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy