SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ उपमितौ अ. ८-प्र. देवादिभवाः ॥७२८॥ 5205 त्सागरोपमाण्युच्चैत्रयोविंशतिमुत्तमम् । शान्तात्मा विगताबाधमनुभूय सुखामृतम् ॥ ४०५ ॥ ततो मनुजगत्यन्तःपातुकं वरपाटकम् । त| दैरवतमायातो, भद्रे ! भार्यानियोगतः ॥ ४०६ ॥ तत्र सिंहपुरे जातः, सुतो वीणामहेन्द्रयोः । अहं गङ्गाधरो नाम, क्षत्रियः ख्यातपौरुषः ॥ ४०७ ॥ जातिस्मरणसंपन्नो, दीक्षामादाय सुन्दराम् । कृत्वा च पूर्ववत्कृत्यं, सुघोषाचार्यसन्निधौ ॥ ४०८ ॥ तदन्ते च | विधानेन, पूर्वव्यावर्णितक्रमात् । अवेयके द्वितीयेऽहं, गतो भार्यानियोगतः ॥ ४०९ ॥ परिपाट्याऽनया भद्रे !, कृताः पञ्च गमागमाः । भावदीक्षां समादाय, प्रैवेयकनिवासिषु ॥ ४१० । एकैकवृद्ध्या संजाता, स्थितिस्तत्र ममानघे! । सागरोपमतो यावत्पञ्चमे सप्तविंशतिः ॥ ४११ ॥ शरीरचित्तनिर्वाणी, शर्मसन्दोहदायिका । इह तत्र च जाता मे, चार्वी कल्याणमालिका ॥ ४१२ ॥ ततश्च षष्ठवारायां, भरते शङ्खनामके । पुरे मनुजगत्यन्तर्धातकीखण्डमण्डले ॥ ४१३ ॥ पुत्रो भद्रामहागिर्योर्जातोऽहं सिंहनामकः । नरेन्द्रवंशे सद्भोगः, सुन्दराकारधारकः ॥ ४१४ ॥ अथ यौवनसंस्थेन, धर्मबन्धुमहामुनिम् । प्राप्य भागवती दीक्षा, मयाऽऽता वरलोचने! ॥ ४१५ ॥ ततः क्रियाकलापेन, साधूनां चारुगामिनि । विहृतोऽहं ससद्भावः, सूत्रार्थग्रहणोद्यतः ॥ ४१६ ॥ अथ स्वल्पेन कालेन, द्वादशाङ्गः सदागमः । सपूर्वः सातिशेषो मे, सर्वथा बन्धुतां गतः ॥ ४१७ ।। पुराऽप्यस्य मया ज्ञातं, विज्ञानं बहुशो बहु । किं तु संपूर्णपूर्वाणि, न प्राप्तानि कदाचन ॥ ४१८ ॥ तदा तु स्तोककालेन, विज्ञानं लीलया मया । निःशेषमस्य विज्ञातं, सर्व पूर्वैः समन्वितम् ॥ ४१९ ॥ ततोऽधिगतसूत्रार्थो, गुरुणा धर्मबन्धुना । स्थापितोऽहं निजस्थाने, सू(भू)रिसङ्घस्य पश्यतः ॥ ४२० ॥ कृतश्च बृहदानन्दो, देवदानवमानवैः । आचार्यस्थापनायां मे, सच्चमत्कारकारकः ॥ ४२१ ॥ गुरुणा शेषलोकैश्च, श्वाधितोऽहं मुहुर्मुहुः । धन्यस्त्वं कृतकृत्योऽसि, येन ज्ञातः सदागमः ॥४२२॥ तथा-वनालङ्कारमाल्यैश्च, पूजिता लोकबान्धवाः । विहिता सङ्घपूजा च, विधिना वसनाशनैः॥४२३॥ सिंहभवः आचार्यपदं ॥७२८॥ Jain Education in For Private & Personel Use Only Kuw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy