SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ उपमितौ अ. ८-प्र. देवादिभवाः ॥७२८॥ 5205 त्सागरोपमाण्युच्चैत्रयोविंशतिमुत्तमम् । शान्तात्मा विगताबाधमनुभूय सुखामृतम् ॥ ४०५ ॥ ततो मनुजगत्यन्तःपातुकं वरपाटकम् । त| दैरवतमायातो, भद्रे ! भार्यानियोगतः ॥ ४०६ ॥ तत्र सिंहपुरे जातः, सुतो वीणामहेन्द्रयोः । अहं गङ्गाधरो नाम, क्षत्रियः ख्यातपौरुषः ॥ ४०७ ॥ जातिस्मरणसंपन्नो, दीक्षामादाय सुन्दराम् । कृत्वा च पूर्ववत्कृत्यं, सुघोषाचार्यसन्निधौ ॥ ४०८ ॥ तदन्ते च | विधानेन, पूर्वव्यावर्णितक्रमात् । अवेयके द्वितीयेऽहं, गतो भार्यानियोगतः ॥ ४०९ ॥ परिपाट्याऽनया भद्रे !, कृताः पञ्च गमागमाः । भावदीक्षां समादाय, प्रैवेयकनिवासिषु ॥ ४१० । एकैकवृद्ध्या संजाता, स्थितिस्तत्र ममानघे! । सागरोपमतो यावत्पञ्चमे सप्तविंशतिः ॥ ४११ ॥ शरीरचित्तनिर्वाणी, शर्मसन्दोहदायिका । इह तत्र च जाता मे, चार्वी कल्याणमालिका ॥ ४१२ ॥ ततश्च षष्ठवारायां, भरते शङ्खनामके । पुरे मनुजगत्यन्तर्धातकीखण्डमण्डले ॥ ४१३ ॥ पुत्रो भद्रामहागिर्योर्जातोऽहं सिंहनामकः । नरेन्द्रवंशे सद्भोगः, सुन्दराकारधारकः ॥ ४१४ ॥ अथ यौवनसंस्थेन, धर्मबन्धुमहामुनिम् । प्राप्य भागवती दीक्षा, मयाऽऽता वरलोचने! ॥ ४१५ ॥ ततः क्रियाकलापेन, साधूनां चारुगामिनि । विहृतोऽहं ससद्भावः, सूत्रार्थग्रहणोद्यतः ॥ ४१६ ॥ अथ स्वल्पेन कालेन, द्वादशाङ्गः सदागमः । सपूर्वः सातिशेषो मे, सर्वथा बन्धुतां गतः ॥ ४१७ ।। पुराऽप्यस्य मया ज्ञातं, विज्ञानं बहुशो बहु । किं तु संपूर्णपूर्वाणि, न प्राप्तानि कदाचन ॥ ४१८ ॥ तदा तु स्तोककालेन, विज्ञानं लीलया मया । निःशेषमस्य विज्ञातं, सर्व पूर्वैः समन्वितम् ॥ ४१९ ॥ ततोऽधिगतसूत्रार्थो, गुरुणा धर्मबन्धुना । स्थापितोऽहं निजस्थाने, सू(भू)रिसङ्घस्य पश्यतः ॥ ४२० ॥ कृतश्च बृहदानन्दो, देवदानवमानवैः । आचार्यस्थापनायां मे, सच्चमत्कारकारकः ॥ ४२१ ॥ गुरुणा शेषलोकैश्च, श्वाधितोऽहं मुहुर्मुहुः । धन्यस्त्वं कृतकृत्योऽसि, येन ज्ञातः सदागमः ॥४२२॥ तथा-वनालङ्कारमाल्यैश्च, पूजिता लोकबान्धवाः । विहिता सङ्घपूजा च, विधिना वसनाशनैः॥४२३॥ सिंहभवः आचार्यपदं ॥७२८॥ Jain Education in For Private & Personel Use Only Kuw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy