SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ उपमितौ अ.८-प्र. ॥७२६॥ चितम् ॥ ३८२ ॥ तैजसीपद्मशुक्लाभिर्जननीभिश्च सादरम् । स्नानाङ्गरागभूषादि, वधूकर्म विनिर्मितम् ॥ ३८३ ॥ ताभिरेव तथाऽशेषैः, सर्वैः सामन्तपार्थिवैः । नापितोऽहं विलिप्तश्च, भूषितो वासितोऽशुकैः ॥ ३८४ ॥ ततः प्रवृत्तो विवाहानन्दः स्थितः सद्बोध एव पुरो8 हितः हूयन्ते कर्मनामिकाः समिधः क्षिप्यन्ते सद्भावनाहुतयः विकीर्यन्ते कुवासनाभिधाना लाजा जलयः, ततः कारितोऽहं सदागमेनैव | सांवत्सरतां भजताऽतिसुन्दरे वृषलग्नांशे पाणिग्रहणं क्षान्तिदारिकायाः, अत्रान्तरेऽतिहर्षेण विजम्भिताः शुभपरिणामादयः विलसिता | निष्पकम्पतादयः प्रवृत्तो महाप्रमोदः भ्रान्तानि मण्डलानि, एवं च क्रमेण तस्मिन्नेव वृषलग्ने परिणीताः शेषा अपि मयाऽष्टौ दयादिकन्यकाः, उपविष्टः सहितस्ताभिस्तस्मिन्नेव जीववीर्यनामके विस्तीर्णे वरासने, ततः समानन्दिताश्चारित्रधर्मराजादयः प्रवृत्ता विविधास्तद्विलासाः, इतश्च-यदैव विद्या सा कन्या, परिणीता मया पुरा । तदैवासौ महामोहः, प्रलीनः परमार्थतः ॥ ३८५ ॥ किं तु–सर्वेषां समुदायात्मा, सारभूतः स वर्तते । दग्धरजुसमाकारस्तेन पार्श्वे स मे स्थितः ॥ ३८६ ॥ यदा तु परिणीतास्ताः, क्षान्यादिवरकन्यकाः । सर्वा वैश्वानरादीनां, प्रतिपक्षतया स्मृताः ॥ ३८७ ॥ तदा सोऽनीकसहितः, पापोदयसमन्वितः । चारित्रधर्मराजादि शितो|ऽपि तथा पुरा ॥ ३८८ ॥ लीनोऽपि लीनतरता, हिंसावैश्वानरादिभिः।सार्ध तैनवभित्रासाइरादूरतरं गतः ॥ ३८९ ॥ त्रिभिर्विशेषकम् । | तथास्थितेषु तेपूचैः, शान्ताबाधः प्रमोदितः । आश्लिष्टो वरनारीभिः, खसैन्यपरिवारितः ॥३९०॥ अन्तरङ्गविलासेन, लसन्नुद्दामलीलया ।। स्वसंवेदनतो वेद, तदा सत्यं मुनेर्वचः ॥ ३९१ ॥ तथा शुभपरिणामस्य, मयाऽन्या अपि कन्यकाः । तन्निष्पकम्पताजातास्तदा बह्वयो | विवाहिताः ।। ३९२ ॥ एताश्च ता धृतिश्रद्धामेधाविविदिषासुखाः । मैत्रीप्रमुदितोपेक्षाविज्ञप्तिकरुणादिकाः ॥ ३९३ ॥ ततस्तेन सुभायाणां, वृन्देन सह लीलया । अत्यर्थ निर्भरीभूता, लसतो मे सुखासिका ॥ ३९४ ।। चिन्तितं च मया स एष सुखसन्दोहो, यः पूर्व धृत्यादिपरिणयनं ॥७२६॥ Jain Education Inte For Private & Personal Use Only jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy