SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ उपमितौ चाहं गुरुत्तमम् । नमस्यामि महाभाग, गर्षि मुनिपुङ्गवम् ॥ ७ ॥ क्लिष्टेऽपि दुष्षमाकाले, यः पूर्वमुनिचर्यया । विजहारेह निःसंगो, प्रस्तावना. दुर्गस्वामी धरातले ॥८॥ सद्देशनांशुमिलोंके, द्योतित्वा भास्करोपमः । श्रीमिल्लमाले यो धीरो, गतोऽस्तं सद्विधानतः ॥ ९ ॥ तस्मादतुलोपशमः सिद्ध(सइ) पिरभूदनाविलमनस्कः । परहितनिरतैकमतिः सिद्धान्तनिधिर्महाभागः ॥ १० ॥ विषमभवगर्त्तनिपतितजन्तुशता-14 लम्बदानदुर्ललितः । दलिताखिलदोषकुलः सततं करुणापरीतमनाः ॥ ११॥ यः संग्रहणकरणरतः सदुपग्रहनिरतबुद्धिरनवरतम् । आत्मन्यतुलगुणगणैर्गणधरबुद्धिं विधापयति ॥ १२ ॥ बहुविधमपि यस्य मनो निरीक्ष्य कुन्देन्दुविशदमद्यतनाः । मन्यन्ते विमलधियः सुसाधुगुणवर्णकं सत्यम् ॥ १३ ॥ उपमितिभवप्रपञ्चा कथेति तच्चरणरेणुकल्पेन । गीर्देवतया विहिताऽभिहिता सिद्धाभिधानेन ॥ १४ ॥ अथवा-आचार्यों हरिभद्रो मे, धर्मबोधकरो गुरुः । प्रस्तावे भावतो हन्त!, स एवाचे निवेदितः ॥१५॥ विषं विनिर्धूय कुवासनामयं, ४ व्यचीचरद्यः कृपया मदाशये । अचिन्त्यवीर्येण सुवासनासुधां, नमोऽस्तु तस्मै हरिभद्रसूरये ॥ १६ ॥ अनागतं परिज्ञाय, चैत्यवन्दनसं-13 श्रया । मदथैव कृता येन, वृत्तिललितविस्तरा ॥ १७ ॥ यत्रातुलरथयात्राऽधिकमिदमिति लब्धवरजयपताकम् । निखिलसुरभवनमध्ये सततंप्रमदं जिनेन्द्रगृहम् ॥ १८ ॥ यत्रार्थष्टकशालायां, देवः सद्धर्मधामसु । कामो लीलावतीलोके, सदाऽऽस्ते त्रिगुणो मुदा ।। १९॥ तत्रेयं तेन कथा कविना निःशेषगुणगणाधारे । श्रीभिन्नमालनगरे गदिताऽग्रिममण्डपस्थेन ॥२०॥ प्रथमादर्श लिखिता साच्या श्रुतदेवताऽनुकारिण्या । दुर्गस्वामिगुरूणां शिष्यिकयेयं गुणाभिधया ॥ २१ ॥ संवत्सरशतनवके द्विषष्टिसहितेऽतिलखिते चास्याः । ज्येष्ठे सितपञ्चम्यां पुनर्वसौ गुरुदिने समाप्तिरभूत् ॥२२॥ प्रन्यायमस्या विधाय, कीर्त्तयन्ति मनीषिणः । अनुष्टुभां सहस्राणि, प्रायशः सन्ति PL॥५॥ षोडश ॥ २३ ॥ इति प्रशस्तिः । Jain Education Intel For Private & Personel Use Only Mainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy