SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ उपमितौ चाहं गुरुत्तमम् । नमस्यामि महाभाग, गर्षि मुनिपुङ्गवम् ॥ ७ ॥ क्लिष्टेऽपि दुष्षमाकाले, यः पूर्वमुनिचर्यया । विजहारेह निःसंगो, प्रस्तावना. दुर्गस्वामी धरातले ॥८॥ सद्देशनांशुमिलोंके, द्योतित्वा भास्करोपमः । श्रीमिल्लमाले यो धीरो, गतोऽस्तं सद्विधानतः ॥ ९ ॥ तस्मादतुलोपशमः सिद्ध(सइ) पिरभूदनाविलमनस्कः । परहितनिरतैकमतिः सिद्धान्तनिधिर्महाभागः ॥ १० ॥ विषमभवगर्त्तनिपतितजन्तुशता-14 लम्बदानदुर्ललितः । दलिताखिलदोषकुलः सततं करुणापरीतमनाः ॥ ११॥ यः संग्रहणकरणरतः सदुपग्रहनिरतबुद्धिरनवरतम् । आत्मन्यतुलगुणगणैर्गणधरबुद्धिं विधापयति ॥ १२ ॥ बहुविधमपि यस्य मनो निरीक्ष्य कुन्देन्दुविशदमद्यतनाः । मन्यन्ते विमलधियः सुसाधुगुणवर्णकं सत्यम् ॥ १३ ॥ उपमितिभवप्रपञ्चा कथेति तच्चरणरेणुकल्पेन । गीर्देवतया विहिताऽभिहिता सिद्धाभिधानेन ॥ १४ ॥ अथवा-आचार्यों हरिभद्रो मे, धर्मबोधकरो गुरुः । प्रस्तावे भावतो हन्त!, स एवाचे निवेदितः ॥१५॥ विषं विनिर्धूय कुवासनामयं, ४ व्यचीचरद्यः कृपया मदाशये । अचिन्त्यवीर्येण सुवासनासुधां, नमोऽस्तु तस्मै हरिभद्रसूरये ॥ १६ ॥ अनागतं परिज्ञाय, चैत्यवन्दनसं-13 श्रया । मदथैव कृता येन, वृत्तिललितविस्तरा ॥ १७ ॥ यत्रातुलरथयात्राऽधिकमिदमिति लब्धवरजयपताकम् । निखिलसुरभवनमध्ये सततंप्रमदं जिनेन्द्रगृहम् ॥ १८ ॥ यत्रार्थष्टकशालायां, देवः सद्धर्मधामसु । कामो लीलावतीलोके, सदाऽऽस्ते त्रिगुणो मुदा ।। १९॥ तत्रेयं तेन कथा कविना निःशेषगुणगणाधारे । श्रीभिन्नमालनगरे गदिताऽग्रिममण्डपस्थेन ॥२०॥ प्रथमादर्श लिखिता साच्या श्रुतदेवताऽनुकारिण्या । दुर्गस्वामिगुरूणां शिष्यिकयेयं गुणाभिधया ॥ २१ ॥ संवत्सरशतनवके द्विषष्टिसहितेऽतिलखिते चास्याः । ज्येष्ठे सितपञ्चम्यां पुनर्वसौ गुरुदिने समाप्तिरभूत् ॥२२॥ प्रन्यायमस्या विधाय, कीर्त्तयन्ति मनीषिणः । अनुष्टुभां सहस्राणि, प्रायशः सन्ति PL॥५॥ षोडश ॥ २३ ॥ इति प्रशस्तिः । Jain Education Intel For Private & Personel Use Only Mainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy