SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना. उपमिती सिद्धमेतदस्माकं' 'मज्जीवे' यथा ५३ पृष्ठे 'परमेश्वरावलोकना मज्जीवे भवन्ती' 'मादृशों' यथा ७३ पृष्ठे 'यो जीवो मादृशः प्रागत्यन्तक्लिष्टपरि लणामतया धर्मगुर्वादिविषयेऽप्यनेककुविकल्पकरणपरोऽभूत् स तदा लब्धविवेकश्चिन्तयति' इत्यादिषु अस्मच्छब्दं प्रयुजानाः स्वकीयमात्मानं ॥४॥ अन्यत्र तु एतच्छब्दमिदंशब्दं जीवशब्दं च प्रयुञ्जन्तः सामान्यतो जीवविषयमाख्यान्ति, तत एव च ९७ पृष्ठे जगुर्गुरवो ग्रन्थकाराः यदुत 'तदिदं वृत्तान्तान्तरमस्यापि जीवस्य दोलायमानबुद्धस्तथा गृहस्थावस्थायां वर्तमानस्य कचित् संभवतीत्यवगन्तव्य' ३७ पृष्ठेऽपि 'यदा खल्वेष जीवो नरपतिसुताद्यवस्थायामित्यादिषु च सामान्येन संभावनयाऽलंचक्रुर्वाक्यपद्धति, यान्यत्र तावत् कथाहेतुप्रतिपादनाय दृष्टान्तरूपाणि पद्यानि द्वादशाधिकशततमादारभ्य पद्यात् पद्यानां सप्तसप्तत्यधिकां चतुःशतीं यावत् प्रतिपादितानि तानि स्वानुभवं निवेदयितुमेव, दार्टीम्तिके तु किश्चित् स्वानुभूतं किञ्चिच्च संभवास्पदं किञ्चित्तु वैराग्योत्पत्तये कल्पितं तेन नानेकभवविषयकं किञ्चित् परस्परविरुद्धं राज्यकुमारत्वगृहपतित्वकृषीबलत्वादिकं च किञ्चिदुपनीयमानं स्वेषां तथाविधातिशाय्यवध्यादिरहितत्वेन विरोधभाक्, यत्र तु विशेषतः स्वस्मिन्ननुभवोपनयस्तत्र ज्ञापितं 'स्वसंवेदनसंसिद्धमेतदस्माकं' पृष्ठे ३४-५४ इत्यादिषु ३ । तुर्ये तु प्रश्ने सुप्रसिद्धमेतत् यदुत भगवन्तः सिद्धर्षयोऽस्या विधातारः कथायाः, तत्रभवन्तश्च स्वीयां गुरुपरम्परामेवं स्पष्टमुदकिष्ट प्रशस्तावस्यैव ग्रन्थस्य-द्योतिताखिलभावार्थः, सद्व्याब्जप्रबोधकः । सूराचार्योऽभवदीप्तः, साक्षादिव दिवाकरः ॥१॥ स निवृत्तिकुलोद्भूतो, लाटदेशविभूषणः । आचारपञ्चकोयुक्तः, प्रसिद्धो जगतीतले ॥२॥ अभूद्भूतहितो धीरस्ततो देल्लमहत्तरः । ज्योतिर्निमित्तशास्त्रज्ञः, प्रसिद्धो देशविस्तरे ॥ ३ ॥ ततोऽभूदुल्लसत्कीर्चिलगोत्रविभूषणः । दुर्गस्वामी महाभागः, प्रख्यातः पृथिवीतले ॥४॥प्रत्रज्यां गृहृता येन, गृहं सद्धनपूरितम्। हित्वा सद्धर्ममाहात्म्य, क्रिययैव प्रकाशितम् ॥ ५ ॥ यस्य सञ्चरितं वीक्ष्य, शशाङ्ककरनिर्मलम् । बुद्धास्तत्प्रत्ययादेव, भूयांसो जन्तवस्तदा ॥६॥ सदीक्षादायकं तस्य, खस्स Jain Education For Private & Personel Use Only jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy