________________
उपमिती
प्रस्तावना.
'मदीयजीवः' यथा ३३ पृष्ठे 'योऽयं मदीयजीवोऽवधारितजात्यन्धभावोऽस्य महामोहः” तथा ४३ पृष्ठे 'मदीयजीवरोरोऽयं कुविकल्पकुतककुतीर्थिकलक्षणैः" 'आत्मीयजीवः' यथा ३३ पृष्ठे 'तदेतदात्मीयजीवस्यात्यन्तविपरीतचारितामनुभवताऽभिहितं 'मम' ५४ पृष्ठे यथा 'येचे मम सदुपदेशदायिनो भगवन्तः सूरयस्ते विशिष्टज्ञाना एव, यतः कालव्यवहितैरनागतमेव तैतिः समस्तोऽपि मदीयवृत्तान्तः स्वसंवेदनसं
अनेन निरस्तास्ते वावदूकाः ये प्रतिपादयन्ति यदुत सिद्धगुरव एव हरिभद्राः सिद्धर्षिश्च तद्धस्तदीक्षितो वा स्यात् स्याद्वा तद्देशनाश्रवणजातबोधः न ४ तु व्यवहितः, यतः स्पष्टमेतत् ज्ञापयन्ति ग्रन्थकृतो यदुत नैते तत्रभवन्तः ममोपदेशदायका मत्समानकालभवाः किंतु विशिष्टप्राकालभवाः अत एव विशिष्टज्ञानादेव मदत्तान्तज्ञातारः, निवेदयन्ति चात्मानुभवसंसिद्धता ब्रुवाणाः परोक्षगुरुग्रन्थावगमजन्यबोधादि खजीवगोचरमेतद्वृत्तं, अत एव च पञ्चपञ्चाशति पृष्ठे प्राक्त्र खस्मिन्नुपनीतमपि धर्मबोधकरवृत्तं "सद्धर्माचार्या अपि जीवविषयं पर्यालोचयन्तः परिकल्पयन्त्येवे"ति जहाँ परोक्षतां साक्षाद्वृत्तं पुरश्चकुश्च, ततश्च पाश्चात्यं शीलमनुसरद्भिर्विपश्चिद्भिर्नैतत् शक्यं वक्तुं कथमपि यदुत द्विषष्टिहायनाधिके शतनवके सिद्धर्षेः सत्त्वात् श्रीमन्तो हरिभद्रसूरिवर्या अपि तत्समकालीना एवेति । किं च प्राकृतकुवलयमालाकाराः “सगकाले वोलीणे बरिसाण सएहिं सत्तहिं गएहिं । एगदिणेण्णेहिं एस समत्ताऽवरणहम्मि ॥१॥" इति गाथया दिनोने सप्तमे शतके शकस्य खग्रन्थसमाप्तिसूचका दाक्षिण्यचिबसूरयो यान् खकृतौ प्राकालीनकविजनतया स्तौति ते श्रीमन्तो हरिभद्राः कथंकारं सिद्धर्षिसमानकाला भवितु| महन्तीति विचार्य विचक्षणैः, प्रस्तावनायां प्रस्ताविता वीराचार्यचरणाजषट्पदाः श्रीहरिभद्राचार्यास्त्वन्य इत इति न श्रीमतां शकसप्तमशताब्दीकाले वर्तमानता शया, तेषामकालीनतासाधनाय यच्च न्यस्यते चूर्खादिकं तदसाधनमेव चूर्णिकालस्य तन्मात्राधारस्य चानिर्णयात् अपरेषामप्यभिधानमनिर्णीतानेहसां नात्रोपयोगि, किंच पञ्चवस्तूदितानां स्तवपरिज्ञाज्ञानपरिज्ञाधर्मरत्नमालादीनां पूर्वान्तर्गतपूर्वधरकृतग्रन्थानामव्याहतानां सद्भावस्तेषां तत्कालीनताज्ञापनायालमेव । अन्यच्च श्रीमतां हि समयो ब्राह्मीलिपिप्रचारवानेवेत्यावश्यकबृहद्धृत्तिगतश्रीमद्वाक्येन 'यथा घटिकासंस्थानो धकारः (१) कुरुण्टिकासंस्थानश्चकार (8) इत्यादि तच ब्राम्यादिलिपिविधानादनेकविध' इत्यनेन ज्ञायते, न चाभूत् सिद्धर्षेः समये ब्राह्मघालेखनप्रचार इति तु स्पष्टमेवेतिहासचणानां, तद्युक्तमेव श्रीमतां हरिभद्रसूरीणां वीरप्रभोरेकादशशताब्दीकाद्यावृत्तित्वं । अत एव तया कल्पनाऽत्र वृत्ते ।
Jain Education
a
l
For Private & Personel Use Only
ww.jainelibrary.org