SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ उपमितौ प्रस्तावना. ॥२॥ १ प्रस्तावः पीठबन्धाख्यः पन्थकृतः पूर्वापरावस्थयोः ग्रन्थसंदर्भहेतुयुक्तयोः संदर्शनं चात्र ।। २ प्रस्तावः अवाप्तमानुष्यो भव्यः पुण्डरीकाख्योऽनुसुन्दराख्यश्चक्री संसारिजीवः सदागर्म समन्तभद्राख्यं सूरि ललिताख्यां नृपपुत्री अगृहीतसंकेताभिधां महाभद्राख्यां प्रवर्तिनी प्रज्ञाविशालाह्वामाश्रित्य यथोदितवान् स्वस्य भवपरम्परां तिर्यगनुभावानुषद्धां तथा स्मृत्वा विचारयति । ३ प्रस्तावः हिंसाक्रोधाभ्यां भव्यस्य नन्दिवर्धनसंज्ञकस्य स्पर्शनात् बालस्य च दुःखावाप्तिर्भवभ्रमश्च भव्यस्य । ४ प्रस्तावः अनृतमानाभ्यां रिपुदारणस्य भव्यस्य रसनायाश्च जडस्याशर्मपरम्पराऽवाप्तिर्भव्यस्य भवारण्यभ्रमश्च । ५ प्रस्तावः स्तेयमायाभ्यां वामदेवस्य भव्यस्य घाणाच मन्दस्यासातप्रवाहापत्तिर्भवोदन्वत्पतनं च । ६ प्रस्तावः मैथुनलोभाभ्यां धनशेखरस्य भव्यस्य अधमस्य च चक्षुषोऽपारव्यथावृत्तिर्दुरन्तसंसारपातश्च । ७ प्रस्तावः महामोहपरिग्रहाभ्यां धनवाहनस्य भव्यस्य श्रवणात्संगाच्च बालिशस्यामितपीडाप्राप्तिः संसारपातश्च । ८ प्रस्तावः गुणधारणस्य भव्यस्य प्राप्तसम्यक्त्वगृहिधर्मद्रव्यश्रमणलिङ्गस्य गौरवात् भवपरम्परा च देवमनुजजन्मान्तरिते षष्ठभवे सिंहा भिधानाचार्यपदस्थस्य अन्तेऽनुसुन्दराख्यस्य चक्रिणो मोक्षश्च २ । तृतीयस्यां तु पृच्छायां अत्र कथाङ्गभूतेषु द्वितीयाद्येष्वष्टमान्तेषु प्रस्तावेषु भव्यजीवस्य तिर्यग्भवभ्रमो गुणधारणाद्यवस्थासु च हिंसाक्रोधादिमिरनन्तसंसारगर्त्तापातो विरतिलाभादिना मोक्षश्च न्यगादीति तत्र भव्यजीव एव नायकः स एवानुसुन्दरश्चक्री, आये तु प्रस्तावे यद्यपि कथोक्तिहेतुतया स्वं जीवमाश्रित्याख्यात उदन्तः सामान्येनेत्याख्यायि तथापि अस्ति तत्र कश्चिद्विशेषः, यतः यत्र यत्र स्वात्मा नायकस्तत्र तत्रादिष्टं ASSANAMASSAC ला ॥ २॥ Jain Education Indon For Private & Personel Use Only againelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy