________________
उपमिती
अ.८-प्र.
यष्ये, दत्तावधाना हि भवनमा प्रच्छन्नस्थितैरपि निजनिजा योग
मनोभङ्ग
॥७२४॥
अतिदुष्करा च प्रव्रज्या तुल्या बाहुभ्यासरहदया है
रणेन लगतां भवतां सर्वप्रलयः संपत्स्यते तस्मात्कालयापनां कुर्वन्तस्तावददृष्टसेवया तिष्ठत यूयं, यदा तु भवतां प्रस्तावो भविष्यति तदा-| हमेव निवेदयिष्ये, दत्तावधाना हि भवत्प्रयोजने सकलकालमहं वर्ते, का भवतां चिन्ता?, ततस्तदनुरोधेनोपसंहृतस्तैः प्रकटसङ्घामाबन्धः, केवलं तथापि वष्टतया प्रयुक्ता एव तैः प्रच्छन्नस्थितैरपि निजनिजा योगशक्तयः, ततस्तन्माहात्म्येन संजाता मम चेतसि कल्लोलाः -यथेदमादिष्टं भगवता यदुत परिणीतासु तासु कन्यकासु भवन्तमहं प्रवाजयिष्ये "अतिदुष्करा च प्रत्रज्या तुल्या बाहुभ्यां स्वयंभूर"मणतरणेन नैष्ठिकं यत्यनुष्ठानं सुखलालितं मे शरीरं संभविनो रोगातङ्काः तन्न क्षमिष्यते प्रायो दीर्घकालं मे रूक्षवृत्तिता कातरहृदया "च वराकी मदनमखरी बाधिष्यते द्राधीयसा यावज्जीविकमदीयवियोगेन इत्यादि चिन्तयतश्च मे संजातो मनाङ् मनोभङ्गः, ततश्चि"न्तितं मया-तत् किं न परिणयामि तावदेताः तिष्ठामि यथासुखासिकया गमयामि यौवनं स्वाधीनाश्च ममैताः ततः पश्चात्काले परि| "णीय प्रव्रजिष्यामीति," अयं च सर्वोऽपि दूरवर्तिनि सद्बोधे मम स्वगतः पर्यालोचः, अत्रान्तरे समागतः सद्बोधः निवेदितो मयाऽस्मै निजाभिप्रायः, सद्बोधः प्राह-देव! न सुन्दरमिदं मन्त्रितं देवेन क्षतिकरमिदमात्महितस्य विबन्धकं सुखसन्दोहानां चिह्नमेतदज्ञतायाः | न च स्वाभाविकमेतन्मत्रणं देवस्य, किं तर्हि ?, विलसितमिदं तेषां पापात्मनां महामोहादीनां, ते हि निधिग्रहणकाल इव वेतालाः पर्युपस्थिताः साम्प्रतं कृतान्तर्धाना विघ्नकरणाय देवस्य तन्न वश्चनीयस्तैरात्मा देवेन, ततो लग्नं सद्बोधभाषितं मच्चित्ते, अभिहितं च मया
-आर्य! कथं पुनरमी निराकर्तव्याः, सद्बोधेनोक्तं-देव! निजबलेन, मयोक्तं-दर्शय मे निजबलं, सद्बोधेनोक्तं-एष सजोऽस्मि केवलं तद्दर्शने कर्मपरिणामस्याधिकारः, कर्मपरिणामेनोक्तं-आर्य! मयाऽऽदिष्टेन त्वयाऽमी दर्शिताः परमार्थतो मयैव ते दर्शिता भवन्ति तन्मा करोतु विकल्पं दर्शयत्वार्यः, सद्बोधेनोक्तं यदादिशति महाराजः, ततः प्रवेशितोऽहं सद्बोधेन चित्तसमाधानमण्डपे
स
| पदेशः
॥ ७२४॥
Jain Education Intel
For Private & Personel Use Only
Dorjainelibrary.org