________________
उपमितौ
अ. ८-प्र.
॥ ७२२ ॥
Jain Education Inter
वीर्यमाश्चर्यकारणम् ॥ ३५१ ॥ ततो यथा यथा भूयः, प्रवृद्धास्तव भावनाः । तथा तथा परिक्षीणा, महामोहादयः स्वयम् ॥ ३५२ ॥ ततः प्रबलतां प्राप्य क्षणादेव विनिर्जितम् । तेन सद्बोधसैन्येन, बलं पापोदयादिकम् ।। ३५३ ।। सर्वे प्रहारिताः प्रायो, महामोहादिशत्रवः । चूर्णितः स विशेषेण, ज्ञानसंवरणो नृपः ॥ ३५४ ॥ स्थिता निस्स्पन्दमन्दास्ते, सर्वे पापोदयादयः । निर्वाहितः स्वसैन्येन, सद्बोधः सह विद्यया ॥ ३५५ ॥ गते चाभ्यर्णतां भूप !, तव सद्बोधमत्रिणि । स तादृशस्तदा जातो, हर्षोल्लासोऽतिसुन्दरः ॥ ३५६ ॥ सद्बोधसचिवो दृष्टः, परिणीता च कन्यका । राजन् ! पुनस्त्वया सर्वं ज्ञातमेव ततः परम् ।। ३५७ ॥ तदिदं कारणं भूप !, भावनानां विवृद्धये । हर्षोल्लासाय चोत्पन्नं, रात्रौ ते नात्र संशयः ॥ ३५८ ॥ मयोक्तं - अधुना किं प्रकुर्वन्ति, ते ममान्तरशत्रवः ? । सूरिराह महाराज!, कुर्वते कालयापनाम् ॥ ३५९ ।। उदीर्णास्ते गता नाशमुपशान्तास्तथा परे । सर्वेऽपि चित्तवृत्तौ ते, लीनलीनतया स्थिताः ॥ ३६० ॥ पुनः प्रस्तावमासाद्य, कृत्वा ते सर्वमीलकम् । संग्रामाय लगिष्यन्ति, मत्सराध्मातचेतसः || ३६१ ॥ ततस्त्वया महाराज !, सद्बोधवचनात्तदा । चारित्रधर्मसुभटैर्वारणीयाः पृथक् पृथक् ॥ ३६२ ॥ मयोक्तं – यदाज्ञापयति नाथः, इतश्च संपूर्णो मासकल्पः ततो गतास्तेऽन्यत्र भगवन्तो निर्मलसूरयः विशेषतोऽनुष्ठिता मया तदुपदेशाः प्रसादितमन्तः करणं परिकर्मितं शरीरं विहितश्चित्तवृत्तौ मे सद्बोधेन प्रवेशः दर्शितौ सामान्यतः समाधिनामानौ द्वौ पुरुषौ धवलौ वर्णेन चारू दर्शनेन सुखदौ स्वरूपेण, ततोऽभिहितं सद्बोधेन — देव ! विशेषतो धर्मशुक्लाभिधानाविमौ पुरुषौ प्रवेशको भवतोऽन्तरङ्गराज्ये तदनयोर्महानादरो विधेयः, मयोक्तं यदादिशत्यार्यः, ततो दर्शिताः सद्बोधेन विद्युत्पद्मस्फटिकवर्णाः सुन्दराकारधारिण्यः सुखस्वरूपा लेश्या इति गोत्रेण पीतपद्मशुक्ला इति नाम्ना प्रसिद्धास्तिस्रो नार्यः, अभिहितं च तेन यदा देव !- प्रथमस्य नरस्येमास्तिस्रोऽपि परिचारिकाः । शुलैवैका द्वितीयस्य, जायते परिपोषिका ॥३६३॥
For Private & Personal Use Only
धर्मशुक्लावाप्तिः
॥ ७२२ ॥
www.jainelibrary.org