SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ उपमिती अ.८-अ. सद्बोधजयः ॥७२१॥ रिणा? ।। ३३३ ॥ यूयं हि यात मा यात, भयेन श्लथसन्धयः । मया यातव्यमेवास्य, प्रतिस्खलनकाम्यया ।। ३३४ ॥ चलिते चा भिधायेत्थं, ज्ञानसंवरणे नृपे । लज्जया चलितास्तेऽपि, सर्वे पापोदयादयः ॥ ३३५ ॥ रुद्धश्चागत्य तैर्मार्गस्तदा सद्बोधमत्रिणः । साX शङ्काः केवलं सर्वे, भोः किमत्र भविष्यति ? ॥ ३३६ ॥ इतश्च-चारित्रधर्मराजीयं, सैन्यं सद्बोधमत्रिणः । तदाऽनुव्रजनं कुर्वदागतं तावती भुवम् ॥ ३३७ ॥ ततः परस्पराह्वानचण्डनि?षभीषणम् । आयोधनं दृढस्पर्धमालग्नं बलयोस्तयोः ॥ ३३८ ॥ अपि च| विशदशकसमप्रभमेकतो, मधुकरच्छविसन्निभमन्यतः । त्रिपथगायमुनाजलवत्तदाऽमिललं प्रविभाति बलद्वयम् ॥ ३३९ ॥ रथविलग्नसयोधमहारथं, गजघटापतितापरवारणम् । हयनिरुद्धलसद्धरिसाधनं, वरपदातिनिपातितपत्तिकम् ॥ ३४०॥ अथ विपाटितयोधशतोत्कटं, प्रकटविस्मयकार्यपि योगिनाम् । अभवदुद्भूटपौरुषशालिनोस्तदितिसङ्कलयुद्धमनीकयोः ॥ ३४१ ॥ ततस्तं तादृशं वीक्ष्य, संशयारूढमुचकैः । स कर्मपरिणामाख्योऽचिन्तयत्तत्प्रयोजनम् ॥ ३४२ ॥ अये!–मया तावन्न कर्तव्यश्चित्तभेदविधायकः । प्रकटः पक्षपातोऽत्र, सर्वसाधारणो ह्ययम् ॥ ३४३ ॥ यतः कृते मत्तो विरज्यन्ते, पक्षपाते स्वबांधवाः । महामोहादयोऽतो मे, युक्तं नाकाण्डविडरम् ॥ ३४४ ॥ तथाहि-अद्य चारित्रधर्मीयं, वल्लभं मे महाबलम् । गुणाः संसारिजीवस्य, सुंदरं प्रतिभासते ॥ ३४५ ॥ अथ दोषेषु वर्तेत, भूयोऽप्येषु यथा पुरा । ततश्चिरंतनस्थित्या, गति, निजबान्धवाः ॥ ३४६ ॥ तस्मात् प्रच्छन्नरूपेण, तस्येदं हितकारकम् । बलं चारित्रधर्मीयमहं पुष्णामि साम्प्रतम् ॥३४७॥ येनेदं जीयतेऽनेन, बलं पापोदयादिकम् । न च मत्तो विरज्यन्ते, महामोहादिबान्धवाः ॥३४॥ ततः सम्यग् विनिश्चित्य, तेनोपायं महात्मना । तथा मदुपविष्टास्ते, वर्द्धिता वरभावनाः ॥३४९ ॥ यावच्च भावनारूढः, स्थितस्त्वं गुणधारण! । तावत्तत्प्रबलीभूतं, सद्बोधसहितं बलम् ॥ ३५० ॥ यतः-मणिमन्त्रौषधादीनां, भावनानां विशेषतः । अचिन्त्यमिह विज्ञेयं, ॥७२१॥ उ. भ. ६१ य in Education in For Private Personel Use Only ainebrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy