SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ उपमितौ अ. ८-प्र. यन ॥ २०॥ ऽवलोकिता ॥ ३१५ ।। ततश्च-सा सद्बोधेन मे दत्ता, परिणीता मयाऽनघा । जातः सदागमादीनामानन्दो लविता निशा ।। ३१६॥ कन्यादशप्रभाते तु समुत्थाय, परिवारविवेष्टितः । गतोऽहं भगवन्मूलं, वन्दिताः सर्वसाधवः ॥ ३१७ ॥ ततो विनयनम्रण, विहिताञ्जलिना, कपरिणमया । समस्तं रात्रिवृत्तान्तं, पृष्टा निर्मलसूरयः ।। ३१८ ॥ यदुत-सा किं मे तादृशी नाथ!, प्रवृत्ता वरभावना । किं वा ताहक्समुद्भूतो, हर्षोल्लासोऽतिसुन्दरः ॥ ३१९ ॥ सूरिराह महाराज!, समाकर्णय कथ्यते । स कर्मपरिणामाख्यस्तुष्टस्ते साधुकर्मणा ।। ३२० ॥ ततस्तेन स्वयं गत्वा, सद्बोधोऽयं सविद्यकः । प्रोत्साहितो यथा गच्छ, भजख गुणधारणम् ।। ३२१ ॥ अथ चारित्रधर्मेण, सार्धमालोच्य पण्डितः । ततः प्रचलितोऽयं ते, समीपागमनेच्छया ॥ ३२२ ॥ विज्ञायामुं च वृत्तान्तं, महामोहादिशत्रवः । पापोदयं पुरस्कृत्य, पर्यालोचमुपागताः ॥ ३२३ ॥ विषयाभिलाषेणोक्तं-विनष्टाः साम्प्रतं यूयं, सद्बोधो हतको यदि । तस्य संसारिजीवस्य, पार्श्वे यायात् सुवष्टकः ।। ३२४ ॥ तत्साम्प्रतं यथाशक्त्या, कुरुध्वं यत्नमुत्तमम् । मार्गे तिष्ठत सर्वेऽपि, तस्य स्खलनतत्पराः ॥ ३२५ ॥ ततः पापोदयेनोक्तमार्य ! किं क्रियतेऽधुना? । यदा देवोऽपि नः स्वामी, तेषां पक्षे व्यवस्थितः ॥ ३२६ ॥ तथाहि—स कर्मपरिणामाख्यो, देवोऽस्मत्पक्षपूरकः । यदाऽऽसीद्धोः पुराऽभूम, बलवन्तस्तदा वयम् ।। ३२७ ॥ उदासीनोऽपि यद्येष, स्याद्देवोऽत्र बलद्वये । तथापि युज्यते|ऽस्माकं, योद्धं तैः सार्धमजसा ॥३२८॥ इदानी देवनिर्दिष्टो, यः पुनर्याति सत्वरम् । सोऽयं सद्बोधसचिवो, नैव स्खलनमर्हति ॥३२९॥ |न चाधुना ममादेशो, देवकीयोऽत्र विद्यते । योद्धव्ये सर्वथा यस्मात्तेन दूरीकृता वयम् ॥ ३३० ॥ तदेवं संस्थिता एवं, प्रस्तावं लब्धुमहथ । यातु यावदयं तस्य, पार्थे सद्बोधनामकः ॥ ३३१ ॥ एतच्चाकर्ण्य वचनं, रोषेण स्फुरिताधरः । रणाय चलितः शीघ्र, ज्ञानसंव- IM॥७२०॥ रणो नृपः ॥ ३३२ ।। उक्तं च तेन-यद्ययं प्रतिपक्षो मे, तत्साधैं याति लीलया । मया किं जीवितेनेह, जननीक्लेशका Jain Education a l For Private & Personel Use Only www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy