SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ 99245 उपमितौ अ.८-प्र. कन्यादशकपरिणयनोपायः ॥७१८॥ "अनुवर्तयता सद्भावप्रधानतां सर्वथा कुर्वता प्रगुणदण्डोपममात्मान्तःकरणं महाराजेन सा ऋजुता वशीकर्तव्येति । तथा धारयति पर"पीडाभीरुतां निराकुर्वति परद्रोहबुद्धिं वर्जयति परधनहरणं लक्षयति तदपायहेतुतां गृह्णति दुर्गतिभयं महाराजे संजातानुरागाऽऽगमि| "ध्यति स्वयंवरा सा नूनमचौरतेति । मुक्ततां पुनरभिलषताऽऽर्य ! महाराजेन सात्मीभावमानेतव्यो विवेकः द्रष्टव्यो बाह्याभ्यन्तरग्रन्था"द्भिन्नः खल्वात्मा शमनीया ग्रन्थपिपासा धारणीयं भावतो बहिरन्तश्चालग्नमन्तःकरणं सर्वथा पङ्कजलाभ्यामिवार्थकामाभ्यामश्लिष्टः | "पद्मवजनयितव्यो निजभाव इति । ब्रह्मरतिं पुनः पाणौ जिघृक्षता कन्दमुने! महाराजेन प्रतिपत्तव्याः समस्ता अपि मातर इव सुरनरतिरश्चां | "नार्यः न वस्तव्यं तद्वसतौ न कार्या तत्कथा न भजनीया तन्निषद्या न विलोकनीयानि तदिन्द्रियाणि न स्थातव्यं रतिस्थमिथुनकुड्या| "भ्यणे न स्मरणीयं पूर्वललितं नाहरणीयः प्रणीताहारः रक्षणीया तदतिमात्रा न करणीया शरीरराढा सर्वथोद्दलनीया रताभिलाषितेति ।। | "तथा सर्वपुद्गलद्रव्याणां देहधनविषयादीनां भावयते सततमनित्यतां चिन्तयते गाढमशुचिरूपतां ध्यायते दुःखात्मकतां लक्षयते चात्म| "भिन्नस्वभावतां विरह्यते सकलं कुवितर्कजालं विमृशते समस्तवस्तुतत्त्वमस्मै महाराजाय गुणधारणाय स सद्बोधः समानीय दास्यति |"तां सम्यग्दर्शनात्मजां विद्याकन्यकामिति । तथा चित्तसन्तापायेच्छा मनोदुःखाय भोगाभिलाषो मरणाय जन्म वियोगाय प्रियसङ्गमः | | "कोशकारकीटस्येव तन्तुसन्तानरचना निबिडात्मबन्धनाय जीवस्य सङ्ग्रहपरता केशायासाय सकलं सङ्गजालं प्रवृत्तिर्दुःखं निवृत्तिः |"सुखमित्येवमनवरतं भावयतो महाराजस्य भविष्यति गाढमनुरक्ता सा निरीहतेति ॥” तदेते सद्गणास्तासां दशानामपि कन्यकानामवा|प्तये महाराजेनाभ्यसनीयाः, अन्यच्च-एवं कुर्वतोऽस्यानुकूलतयैवावसरं विज्ञाय दर्शयिष्यति समस्तं चारित्रधर्मराजादिकं निजबलं स कर्मपरिणामः, ततः प्रत्येकमनुरूपगुणाभ्यासेनैवात्मन्यनुरागमानेतव्यास्ते महाराजेन सुभटाः, ततः स्वाभ्यनुरक्तास्ते निराकरिष्यन्ति ॥७१८॥ Jain Education Inter For Private & Personel Use Only daw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy