SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ उपमितौ अ.८-प्र. नाभिमुखा जायन्ते स्वयमेव तासां पितरः ताश्च स्वत एवानुरज्यन्तेऽस्य ततो भवति निष्कृत्रिमः प्रेमाबन्धः, न खलु राजाक्रान्त्या! प्रेमाबन्धो घटितः सुघटितो भवति, न च घटयितुं शक्यत इति, कन्दमुनिराह-भदन्त! किमत्र वक्तव्यमधुनैवायं भगवद्वचन-1 करणेन यथार्थो भविष्यति गुणधारणः, तत्करोत्येवैष यदाज्ञापयन्ति भगवन्तः, केवलमादिशन्तु विशेषेण नाथाः के पुनरनेन तासां कन्यकानां लाभाय सद्गुणाः सततमनुशीलनीयाः ?, भगवतोक्तं-"आर्य! क्षान्तिमभिवाञ्छता तावदनेन भावनीया समस्तजन्तुषु मैत्री कन्यादश| "सहनीयः परविहितः परिभवः अनुमोदनीयस्तहारेण परप्रीतियोगः चिन्तनीयस्तत्सम्पादनेनात्मानुग्रहः निन्दनीयः परिभावकदुर्गतिहे कपरिणय"तुतयाऽऽत्मा श्लाघनीयाः परकोपकारणभावरहिता धन्यतया भगवन्तो मुक्तात्मानः ग्रहीतव्याः कर्मनिर्जरणहेतुतया न्यक्कारकर्तारो हित-13 नोपायः "बुद्ध्या प्रतिपत्तव्याः संसारासारत्वदर्शितया त एव गुरुभावेन सर्वथा विधेयं निष्प्रकम्पमन्तःकरणमिति ॥ दयां पुनः परिणिनीषता|"ऽनेन सर्वथा वर्जनीयः स्तोकोऽपि परोपतापः दर्शनीयः सर्वदेहिनां बन्धुभावः प्रवर्तितव्यं परोपकारकरणे नोदासितव्यं परव्यसनेषु | "सर्वथा भवितव्यं समस्तजगदाह्रादकरामृताशयधारिणेति ॥ मृदुतां पुनरार्य! विवाहयिषता महाराजेन मोक्तव्यो जातिमदः परित्याज्यः "कुलाभिमानः वर्जनीयो बलोद्रेकः रयितव्यः रूपोत्सेकः परिहर्तव्यस्तपोऽवष्टम्भः निराकरणीयो धनगवः निर्वासनीयः श्रुताहङ्कारः "अपक्षेप्तव्यो लाभमदः शिथिलयितव्यो वाल्लभ्यकानुशयः सेवनीया नम्रता अभ्यसनीयो विनयः सर्वथा कर्तव्यं नवनीतपिण्डोपमं हृद-1 "यमिति ॥ तथा परिहरतः परेषां मर्मोद्घट्टनं वर्जयतः पैशुन्यं विमुञ्चतोऽवर्णवादं शिथिलयतो वाक्पारुष्यं गर्हयतो वक्रोक्तिं अनाचरतः | "परिहासं अवदतोऽलीकवचनं त्यजतो वाचाटतां विदधतो भूतार्थोद्भावनं प्रगुणीभविष्यति गुणानुरक्ता महाराजस्य स्वयमेव सा सत्य- ॥ ७१७॥ "तेति । तथा निर्भर्सयता कौटिल्यं दर्शयता सर्वत्र सरलभावं परित्यजता परवञ्चनं विमलयता मानसं समनुशीलयता प्रकटाचारतां CA Jain Education in For Private & Personel Use Only jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy