________________
उपमिती अ. ८-प्र.
APa
-
॥ ६९८॥
पुण्योदयेन बलद्वयस्तब्धता
MCALCARMACOCOM
कुलन्धरः कनकोदरेण-भद्र ! राजपुत्र कोशार्थमेतेषामिहानयनं, ततो यथाऽस्माकं हर्षवृद्धये स्वीकृता मदनमञ्जरी वत्सा तथैतान्यपि स्वीकर्तुमर्हति राजपुत्रः, कुलंधरेणोक्तं-यूयमेव प्रमाणं किमत्र राजपुत्रस्य ?, न खलु गुरवो यथेष्टं कारयन्तो राजपुत्राभ्यर्थनां कर्तुमर्हन्ति, ततः परितुष्टः कनकोदरः कृतकृत्योऽहमिदानी निश्चिन्तीभूता वत्सा मदनमञ्जरीति भावनया गता परमपरितोषं कामलता हृष्टो लवलिकादिः परिजनः, तथाहि-कन्या शोककरी जाता, चिन्ताकृद्धर्ममानिका । वितर्ककारिणी दाने, दौगत्ये गाढदुःखदा ॥८॥ सानुरूपाय रुच्याय, धार्मिकाय धनैर्युता। किल निश्चिन्तताहेतुः, सद्भत्रे प्रतिपादिता ॥ ८३ ॥ अतस्तां रत्नपूगाढ्यां, दत्त्वा मदनमञ्जरीम् । मह्यं स हृष्टः संपन्नः, सबन्धुः कनकोदरः ॥ ८४ ॥ अत्रान्तरे-सप्रमोदपुरस्याये, मेघजालमिवातुलम् । विद्याधरबलं दूरादृश्यते स्म नमस्तले ।। ८५ ॥ तच्च चक्रासितूणीरकुन्तनाराचभीषणम् । शक्तिप्रासधनुर्दण्डगदाशूलभयानकम् ॥८६॥ प्रेसद्धेतिप्रभाजालकरालं दर्पनिर्भरम् । असङ्ख्यवल्गदुद्दामखेचराधिपसङ्कलम् ॥ ८७ ।। सिंहनादमहोत्कृष्टिनिध्वानभृतदिक्पथम् । संनद्धबद्धकवचक्रोधान्धभटदारुणम् ॥ ८८॥ त्रिभिर्विशेषकम् । अथ सङ्ग्रामशौण्डीरं, स्पर्धमानं तदुच्चकैः । क्षणादागतमभ्यणे, दृष्टमस्माभिरुन्मुखैः ॥८९॥ ततः कनकोदरेणोक्तं-भो भो विद्याधरास्तूर्ण, सजीभवत सम्मुखाः । सोऽयं चटुलवृत्तान्तः, साम्प्रतं स्फुटतां गतः ॥९०॥ तथाहि-सकोपा ये गताः पूर्व, मामसंभाष्य मण्डपात् । स्थितास्ते मीलकेनैव, मत्सराध्मातचेतसः ॥ ९१ ॥ त एते खेचराः सर्वे, पर्यालोच्य परस्परम् । समागताश्चरैत्विा , दत्ता मदनमञ्जरीम् ॥ ९२ ॥ एतेषामिदमाकूतं, किलायं गुणधारणः । हीनो भूगोचरोऽस्मत्तो, वयं विद्याधरोत्तमाः॥ ९३ ॥ तदेते निपतन्त्यत्र, यावदाहादमन्दिरे । प्रेरयामः क्षणात्तावद्गरुडा इव वायसान् ॥ ९४ ॥ अपसारयत वेगेन, भूमिगोचरभृत्यकाः । सन्तो यूयममीषां हि, मिथ्यामानं स्वगोचरम् ।। ९५ ॥ अथ तत्स्वामिनो वाक्यमाकर्ण्य रणशालिनः । समुत्पतितुमा
॥६९८॥
Jain Education inte
For Private Personel Use Only
ainelibrary.org