SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ स उपमिती अ. ८-प्र. ॥ ६९७॥ मदनमञ्जयाः पाणिग्रहणम् मामवलोक्य प्राप्तः स एवायमिति हृष्टा चिराइष्ट इत्युत्कण्ठिता कुतस्तस्यागमन मिति सवितर्का स्वप्नोऽयं भवेदिति सविषादा स्थिरः प्रप्रत्यय इति जातनिर्णया विरहेऽपि जीवितेति सलज्जा कथं मामेष प्रतिपद्यत इति सोद्वेगा निरीक्षते मामयमिति सप्रमोदेति संपन्ना संकी-1 रसनिर्भरहृदया, अत एव चालंकृता पुलकजालकेन विभूषिता खेदबिन्दुमौक्तिकनिकरण बन्धुरा समुत्तालश्वसितपवनेन हृदयहारिणी सुललितलतेव कम्पमाना सर्वथा-अनाख्येयं रसं कंचिदत्यन्तप्रीतिनिर्भरा । मया सा स्निग्धलोलाक्षी, भजन्ती प्रविलोकिता ।। ७८ ॥ ततोऽभिहिता कामलतया-वत्से ! किं जातस्तेऽधुना लवलिकावचने संप्रत्ययः ?, ततः स्मितेन रञ्जयन्ती मम हृदयमिव सुधाधवले नापि विमलकपोलौ स्थिता साऽधोमुखी, जातः सर्वेषां प्रमोदः, अत्रान्तरे-लसद्भूषणरत्नौघप्रभाजालैः समन्ततः । प्रकाशितनभोभा-15 गैर्देवाकारानुकारिभिः ॥ ७९ ॥ भूरिविद्याधरैः सार्धं, शक्रवच्चारुलीलया । रत्नैर्भूत्वा विमानौघमागतः कनकोदरः॥ ८० ॥ युग्मम् । सप्रमोदपुरं वीक्ष्य, सोऽवतीर्णः सखेचरः । आह्लादमन्दिरं प्राप्तो, दृष्टोऽस्माभिः सविस्मयम् ।। ८१ ।। ततः कृतमस्माभिरभ्युत्थानं नामितमुत्तमाङ्गं विहिता प्रतिपत्तिः उपविष्टाः सर्वे यथास्थानं विलोकितोऽहं स्निग्धदृष्ट्या सुचिरं कनकोदरेण नूनं स एवायमिति निश्चित्य तुष्टश्चेतसा पृष्टा कामलता कथितोऽनया वृत्तान्तः, कनकोदरेणोक्तं-देवि ! निर्वहितमेव वत्साया दुष्कररोचिकात्वमीदृशपुरुषरत्ने ययाऽनया कृतो मनोनिर्बन्धः, न खलु शची पुरंदरादन्यत्र स्वचित्तं निवेशयते, कामलतयोक्तं-एवमेतन्नास्त्यत्र सन्देहः ।। अत्रान्तरे समागतो वेगेन चटुलः, तेन च निवेदितं किमपि कनकोदराय कर्णाभ्यर्णे, ततोऽलमत्र कालविलम्बेनेति कामलतां प्रति वदता समालोच्य सह कुलन्धरेण तत्रैव स्थाने संक्षेपतः कारितोऽहं पाणिग्रहणं मदनमञ्जर्याः कनकोदरेण निर्वर्तितो विवाहानन्दः प्रकटितानि तानि वज्रवैडूर्येन्द्रनीलमहानीलकर्केतनपद्मरागमरकतचूडामणिपुष्परागचन्द्रकान्तरुचकमेचकाद्यनर्धेयरत्नराशिपरिपूरितानि विमानानि, ततोऽभिहितः ॥६९७॥ उ. भ. ५९ Jain Education For Private & Personel Use Only Hww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy