________________
॥ ६९६ ॥
उपमितौ भूतवेतालाः समुद्रतः शशधरः विलसिता चन्द्रिका, ततश्चित्तप्रमोदकारिणीभिः कथाभिर्विनोदयन्तीभिस्तां वत्सां मदनमञ्जरीमतिवाहिअ. ८-प्र. ताऽस्माभिः कथंचिद्रजनी समुद्गतो दिनकरः, मयोक्तं —हले लवलिके ! स्थिता गगनमार्गे निरूपय निजस्वामिवर्तनीं किमसौ चिरयति ?, ततो यदाज्ञापयति स्वामिनीति वदन्ती स्थितेयं नभस्तले लवलिका स्थित्वा च क्षणमात्रं समवतीर्णा सहर्षा, मयोक्तं —हले ! किं सहर्षाऽसि किं समागतस्ते स्वामी ?, अनयोक्तं अम्ब ! नाद्यापि समागतः स्वामी किं तु समागतौ तौ राजकुमारौ निरीक्षितं च ताभ्यां भर्तृदारिकादर्शनार्थं समस्तमुद्यानं केवलमतिगहनतयाऽस्य प्रदेशस्य न दृष्टा भर्तृदारिका, ततोऽसौ भर्तृदारिकाहृदयदयितः सविषादः सन्नुतस्तेन द्वितीयेन यथा - कुमार ! गुणधारण! स्थीयतां तावत्तत्रैव चूतवने तस्यैव च चूतस्याधो यत्र दृष्टाऽऽसीद्भवता सा चटुलपवनचलितकुवलयदललोललोचना हृदयतस्करी किमन्यत्र पर्यटितेन ? कदाचिद्दैवयोगात्पुनस्तत्रैवोपलभ्यत इति, तेनोक्तं एवं भवतु, ततो गतौ तौ तदभिमुखं, इदमम्ब मे हर्षकारणं, वत्सयोक्तं भवतु मातः ! किमेवं मां प्रतारयसि ?, ततोऽनया तत्प्रत्यायनार्थं कृतानि शपथशतानि तथापि न प्रत्यायिता वत्सा मदनमञ्जरी, मयोक्तं —हले लवलिके! किमनेन बहुना ?, दर्शय तावन्मे कुमारं येन तं स्वयमेवेहानीय वत्सामाह्लादयामि, अनयोक्तं - एषा सज्जाऽस्मि प्रवर्ततामम्बा, ततो विमुच्य वत्सासमीपे तां धवलिकां प्रवृत्ताऽहं ततश्च नीताऽह| मेवमनया लवलिकया भवतः समीपं तदेषोऽत्र कुमार ! परमार्थः वत्सां कण्ठगतप्राणां तां मे दुष्कररोचिकाम् । उत्थायानुग्रहं कृत्वा कुमारो द्रष्टुमर्हति ॥ ७७ ॥ ततो विलोकितं मया कुलंधरवदनं, तेनोक्तं —— कुमार ! गम्यतां कोऽत्र विरोध: ?, ततः कृतमस्माभिस्तत्र गमनं दृष्टा यथानिर्दिष्टा मदनमञ्जरी, ततोऽहं निमग्न इव सुखामृतमये महाहदे अवतीर्ण इव रतिरसमये महासमुद्रे वर्तमान इव सर्वानन्दसन्दोहे परिपूर्ण इव सर्वमनोरथभरेण प्रीणिताशेषेन्द्रियग्राम इव सर्वोत्सवसमुदये संजातस्तद्दर्शने सतीति, तथा सापि
Jain Education Inte
For Private & Personal Use Only
मदनमखदानं
॥ ६९६ ॥
Vainelibrary.org