SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ र इति व अतिदुष्कररोलिना यथाऽय! : शरीरापाटव उपमिती मामो वयमितः स्थानात् अलमेतेषां दर्शनेन शिरो दुष्यति ममानेन युष्मदुपवर्णितालीकतद्गुणश्रवणेन, तदाकर्ण्य विषण्णाऽहं निवेदितं राज्ञे अ. ८-प्र. गतोऽसौ चिन्तां अभिहितमनेन नीयतां भवने वत्सा मा भूञ्चित्तदुःखासिकयाऽस्याः शरीरापाटवमिति, ततस्तां गृहीत्वा निर्गताऽहं स्वयं वरमण्डपात् प्राप्ता स्वभवनं विषण्णेयं लवलिका, अभिहितमनया-यथाऽम्ब! कः पुनर्भर्तृदारिकायाः परिणयनोपायो भविष्यति ?, म॥६९२॥ Mयोक्त-वत्से लवलिके! वयमपि न जानीमः अतिदुष्कररोचिकेयं तव प्रियसखी प्रष्टव्येयमेव भवत्या यत्र करणीयं समाप्तोऽस्माक| मिदानी मन्दभाग्यानां पर्यालोचगोचर इति वदन्ती स्थूलमुक्ताफलकलापकल्पैर्नयनसलिलबिन्दुसन्दोहै रोदितुं प्रवृत्ताऽहं, लवलिकयोक्तं -स्वामिनि ! मुञ्च विषादं प्रश्नयिष्याम्यहं भर्तृदारिकां, न खल्वेषा विनयसर्वस्वं स्वजननीजनकयोः सन्तापकारिणी भविष्यति कथM यिष्यति यदत्र करणीयं, ततश्चैवं स्वस्थीकृताऽहमनया लवलिकया ॥ इतश्च ते विद्याधराः स्वयंवरमण्डपावृतवरामेव निर्गच्छन्तीमव- चतुर्मानु लोक्य तां वत्सां मदनमञ्जरी हृतसर्वस्वा इव नष्टरत्ननिधाना इव मुद्गरताडिता इव विगलितविद्या इव सर्वथा भ्रष्टच्छाया विलक्षीभूताः ॥षः स्वप्नः |सकोपाः सन्तः कनकोदरनरेन्द्रमसंभाष्य निर्गताः स्वयंवरमण्डपाद्गता गृहीत्वैकां दिशं, ततो राजा प्राप्तः शोकातिरेकं लङ्कितं वर्षमिव तदिनं समागता रजनी न दत्तं च प्रादोषिकमास्थानं, सुप्तः केवलं तया गमितप्राया चिन्तया विनिद्रेणैव राज्ञा विभावरी ततोऽतिभरेण पलब्धोऽनेन निद्रालवः जातं तत्र स्वप्नदर्शनं, दृष्टानि जाग्रतेव चत्वारि मानुषाणि-द्वौ पुरुषौ द्वे ललने, तैरभिहितं-महाराज! कनको|दर किं सुप्तस्त्वं उत जागर्षि ?, नृपतिराह जागर्मि, तैरुक्तं यद्येवं ततो मुञ्च विषादं निरूपितोऽस्माभिः पूर्वमेव वरो मदनमञ्जर्याः स एव भविष्यति अलं भवतामन्यवरान्वेषणेन अस्माभिरेव च द्वेष्याः संपादिताः खल्वस्यास्ते विद्याधरनरेन्द्राः यतो न प्रयच्छामो वय- ॥६९२॥ | मेनामन्यस्मै वरायेति ब्रुवाणानि तानि गतान्यदर्शनं, अत्रान्तरे संजातः प्राभातिकतूर्यनिर्घोषः प्रबुद्धो राजा स्मृतः स्वप्नार्थः प्रहृष्टश्चे. Jain Education in For Private & Personel Use Only Colhaw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy