SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ उपमितौल जाय संजातोऽसौ सचिन्तः कथमियं करिष्यत इति, ततः समुत्पन्नाऽस्य बुद्धिः कारितोऽनेन स्वयंवरामण्डपः समाहूताः सर्वे विद्याधर-8 मदनमञ्जअ.८-प्र. नरेन्द्राः समागता वेगेन कृतास्तत्प्रतिपत्तयः विरचिता मञ्चाः स्थिताः सर्वे यथास्थानं उपविष्टः स्वयंवरामण्डपमध्ये सपरिकरो राजा रीस्वयंवरः प्रविष्टाऽहं विरचितवरनेपथ्यालङ्काराङ्गरागमाल्यादिविच्छित्तिचर्चनां गृहीत्वा वत्सां मदनमजरी सह लवलिकया, तां चापहसितामर-1 ॥६९१॥ सुन्दरीलावण्यां कन्यामुपलभ्य प्रबलचित्तकल्लोलैरलमुल्ललमाना अपि तस्यां विनिविष्टदृष्टिचेष्टाः स्थिताचित्रन्यस्ता इव निश्चलाः सर्वेऽम्बर-18 चराः, वर्णिता मया नामतो गोत्रतो विभवतो निवासतो रूपतो गुणतश्चिह्नतश्च प्रत्येकमेते, तद्यथा-वत्से मदनमरि!-एषोऽमित-| प्रभो नाम, विद्युद्दन्तस्य नन्दनः । अतुलर्द्धिश्च वास्तव्यः, पुरे गगनवल्लभे ॥ ५५ ॥ सुराकारधरोऽशेषकलाकौशलकोविदः । केतौ चारुमयूरेण, लसत्तालं विराजते ॥ ५६ ॥ तथा-एष भानुप्रभो नाम, नागकेसरिनन्दनः । महर्द्धिको महावीर्यो, गान्धर्वपुरना-| यकः ॥ ५७ ।। कमनीयाकृतिवत्से., भूरिविद्याविशारदः । आकरो गुणरत्नानां, प्रसिद्धो गरुडध्वजः ।। ५८ ॥ तथा-अयमपि च |रतिविलासो रतिमित्रसुतो महर्द्धिसंपन्नः । तदधिपतिरेष निवसति रथनूपुरचक्रवालपुरे ॥ ५९ ॥ कनकावदातवपुरेष निखिल-| विज्ञानगुणगणोपेतः । ननु पश्य मदनमञ्जरि ! वरवानरकेतुयष्टियुतः ॥ ६० ॥ तदेवं यावदेकैक, वर्णयामि नरेश्वरम् । तावद्विषादमापन्ना, वत्सा मदनमजरी ॥ ६१ ।। तथाहि दृष्टा सा तदा मया दुर्भगनारीव सपत्नीगुणेषु विपद्गतसुभट इव शत्रुवीर्येषु समत्सरवादीव प्रतिवादिसौष्ठवेषु सेयॆवैद्य इव प्रतिवैद्यकौशलेषु सोत्सेकविज्ञानिक इव प्रतिविज्ञानिकनैपुणेषु केनचित्सादरमुपवर्ण्यमानेषु तेषु वि-10 द्याधरनरेश्वरेषु मया तथा श्लाघ्यमानेषु दृष्टी अपातयन्ती संजाता गाढं विद्राणवदना वत्सा मदनमखरी, ततो हा किमेतदिति विचिन्त्य | ॥६९१ ॥ |मयाऽभिहिता सा-यथा वत्से! मदनमञ्जरि किमभिरुचितः कश्चिदेतेषां मध्ये वत्सायै विद्याधरनरेन्द्रः?, तयोक्तं-अम्ब! तूर्णमपक्र AASANAS Jain Education For Private & Personel Use Only W w.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy