SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ उपमितौ अ.८-अ. रीसमागमः ॥६९०॥ ततश्च-वने पर्यट्य तां नूनं, वीक्षमाणो मुहुर्मुहुः । कुलंधरयुतो यावन्निषण्णस्तस्य भूतले ॥ ५२ ॥ तावत्तूर्णपदन्यासैः, पत्रमर्मरनिस्खनम् । आकर्ण्य कस्यचित्पृष्ठे, वलिता मम कन्धरा ॥ ५३ ॥ अथैका मध्यमावस्था, दृष्टा नारी सुविग्रहा। द्वितीया सा समायाता, याऽsसीत्तस्या द्वितीयिका ॥ ५४ ॥ ततः सकुलंधरेण मया कृतमभ्युत्थानं नामितमुत्तमाङ्ग, ततः सविशेष विलोकितोऽहं तया प्रौढनार्या, कृतमानन्दोदकबिन्दुपरिप्लुतनयनयुगलं, अभिहितं च-वत्स! चिरं जीव मदीयजीवितेनापि, कुलंधरोऽप्युक्तः-पुत्र! दीर्घायुर्भव त्वं, अस्ति भवद्भ्यां सह किंचिद्वक्तव्यं अतो राजपुत्रमुपवेशयितुमर्हति वत्सः, कुलंधरेणोक्तं यदादिशत्यम्बा, ततः प्रमृष्टमनेन भूतलं उपविष्टानि वयं, ततो मामुद्दिश्य तयाऽभिहितं-वत्साकर्णय-अस्ति विद्याधरालयो वैताब्यो नाम महागिरिः, तत्र गन्धसमृद्धं नाम नगरं, तदधिपतिर्विद्याधरचक्रवर्ती कनकोदरो नाम राजा, तस्याहं कामलता नाम महादेवी, न चाभूत्तस्यापत्यं गतो भूरिकालः | विषण्णोऽसौ निरपत्यतयाऽहं च ततोऽपत्यार्थ प्रयुक्तानि भेषजानि विहिता ग्रहशान्तयः दत्तान्युपयाचितशतानि पृष्टा नैमित्तिकाः उपचरिता |मत्रवादिनः विन्यासितानि तत्राणि पीतानि मूलजालानि कृतानि कौतुकानि निःसारिता अवश्रुतयः शोधितानि जातकानि अवतारिताः प्रश्नाः प्रार्थिताः प्रशस्तस्वप्नाः अभ्यर्थिता योगिन्यः कृतं सर्व यदुक्तं किंचित्केनापीति, ततो मध्यमे वयसि प्रादुर्भूतो मे गर्भः प्रहृष्टो राजा क्रमेण च प्रसूताऽहं जाता देहप्रभया दिक्चक्रवालमुद्भासयन्ती दारिका निवेदिता राज्ञे परितुष्टोऽसौ कारितं महावर्धनकं प्रतिष्ठितं प्रशस्त दिने नाम मदनमञ्जरीति, वर्धिता सा सुखसन्दोहेन संजातेयमत्यन्तमभीष्टा, जनकप्रियपदातिनरसेनवल्लरिकादुहिता तस्याः प्रियसखी लवलिका, प्राहिता सार्धमनया सा सकलाः कलाः प्राप्ता यौवनं, ततः कलासौष्ठवेन रूपातिशयेन च न ममोचितः पुरुषोऽस्तीति बुद्ध्या संजाता पुरुषद्वेषिणी सा वत्सा मदनमजरी, तच्च लवलिकावचनेन विज्ञाय तदाकूतं विषण्णाऽहं निवेदितं महारा EARCLEASANTOS ॥६९०॥ Jan Education Inter For Private Personel Use Only
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy