SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ उपमितौ अ.८-प्र. मदनमंजरीसमागमः ॥६८९॥ तस्य पुनः पुनः । अपश्यतः परीक्षार्थ, तदाऽत्यर्थ निभालये ॥ ३३ ॥ अथ विज्ञातसद्भावः, कलाकौशलकोविदः । निगूढं काकली कृत्वा, मामाह स कुलंधरः ॥३४॥ कुमार! किं स्थितेनात्र, गम्यतामधुना गृहे। क्रीडितं बृहतीं वेलामपराहो हि वर्तते ॥३५॥ मयोक्तं रोचते यत्ते, तदेव क्रियतामिति । ततो गृहे गतावावां, कृतं च दिवसोचितम् ॥ ३६ ॥ अथ रात्रौ विविक्तायां, शय्यायां मम तिष्ठतः । सा चेतसि कुरङ्गाक्षी, खाटकृत्य पुनरागता ॥ ३७ ॥ नाभविष्यञ्च नेदिष्ठो, यदि पुण्योदयोऽनघः । तथा मे वर्तमानस्य, तदा भद्रे! सहायकः ॥ ३८ ॥ ततः-सा शल्यभूता मे चित्ते, विलगन्ती मुहुर्मुहुः । अकरिष्यवस्था यां, साऽऽख्यातुं नैव पार्यते ॥३९॥ केवलं निकटस्थायी, यतः पुण्योदयोऽनघः । ममाभूत्तेन सा जाता, नात्यर्थ बत बाधिका ॥४०॥ त्रिमिर्विशेषकम् । अनघः स करोत्येव, यतः पुण्योदयो नृणाम् । सांसारिकपदार्थेषु, निराबाधमिदं मनः ।। ४१ ।। तथापि तामनुस्मृत्य, मनाक् चिन्तामहं गतः । यथा कस्य पुनः सा स्यान्नीलनीरजलोचना ॥ ४२ ।। चिन्तयित्वा गतो निद्रां, विभाता च विभावरी । प्रभाते च समायातो, मत्समीपं कुलंधरः ॥४३॥ ईषदर्शनलोभेन , तस्याः सोऽभिहितो मया । वयस्य ! किं व्रजावोऽद्य, पुनराहादमन्दिरे ॥४४॥ ततः कुलंधरेणोक्तं, स्मितबन्धुरया गिरा । किमिदं गम्यते ? किं ते, विस्मृता तत्र कुञ्चिका?॥४५।। अये! ज्ञातो ममानेन, भाव इत्यवधार्य च । मया सोऽभिहितो मित्र!, परिहासो विमुच्यताम् ॥४६॥ गम्यतां पुनरुद्याने, का कस्येति च वीक्ष्यताम् । उचिता कन्यका चेति, नेति वा सा परीक्ष्यताम् ॥४७॥ अन्यश-परभार्या ग्रहीष्येऽहं, विकल्पमिति मा कृथाः । कन्यका चेन्न मुश्चामि, तामिन्द्रस्यापि धावतः॥४८॥ ततः कुलंधरः प्राह, मित्र! मोत्तालतां गमः । गच्छावः क्रियते सर्व, यद्वयस्याय रोचते ॥ ४९॥ ततो गतौ पुनस्तत्र, कानने तन्निरूपितम् । स्थानं यत्र परा प्रायोपितोतियं परम् ॥ ५० ॥ अथादृष्ट्वा पुनस्तत्र, तां कुरङ्गमवीक्षणाम् । अहं तल्लिप्सया किंचिञ्चित्तोद्वेगेन पीडितः ।। ५१।। C4560 ॥९८९॥ Jain Education Intem For Private & Personal Use Only S Mjainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy