SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ उपमिती अ.८-प्र. गुणधारणतया जन्म अथ अष्टमः प्रस्तावः। ॥६८७॥ AAAAAAACARSA अथास्ति मानवावासे, सत्पुरं सततोत्सवम् । सप्रमोदमिति ख्यातमचिन्त्यगुणभूषितम् ॥ १॥ दानवारिकृताहादो, महेभगतिविभ्रमः । पुरंदरसमो यत्र, नरवर्गो विराजते ॥ २ ॥ रूपलावण्यनेपथ्यनिर्विशेषोऽमरीजनैः । विलासिनीजनो यत्र, नेत्रोन्मेषैर्विशिष्यते ॥३॥ तत्रारिकरिसङ्घातविपाटितकटस्थलः । निर्व्याजपौरुषख्यातो, राजाऽस्ति मधुवारणः॥४॥ सर्वसाधारणं कृत्वा, वितीर्ण येन | नो धनम् । रूपरक्षितदारेण, सौविदल्ला न धारिताः ॥ ५ ॥ तस्यास्ति पद्मपत्राक्षी, रूपलावण्यशालिनी । प्रधानवंशसंभूता, महादेवी सुमालिनी ॥ ६ ॥ या हृदि न्यस्तराजाऽपि, राज्ञो हृदयवर्तिनी । इत्थं दर्शितचित्रापि, विचित्रगुणयोगिनी ॥ ७ ॥ अथ पुण्योदयेहा नाहं, संयुक्तो निजभार्यया । भद्रेऽगृहीतसङ्केते!, तस्याः कुक्षौ प्रवेशितः ॥ ८॥ निष्क्रान्तः कालपर्यायात्सर्वावयवसुन्दरः । छन्नः सोऽपि मया सार्ध, जातः पुण्योदयोऽनघे! ॥ ९॥ जाते च मयि संजातमानन्दरसनिर्भरम् । उद्दामनृत्तसंगीतं, मधुवारणमन्दिरम् 8 ॥ १० ॥ तथा-विहितं च नरेश्वरतोषकर, वरराससलासविलासधरम् । बहुवादनखादनगानपरं, मदिरामदघूर्णितचारुनरम् ॥ ११ ॥ विलयाजननर्तितवामनकं, कृतकुब्जककञ्चुकिहासनकम् । विहितार्थिमनोरथपूरणकं, कृतलोकचमत्कृति वर्धनकम् ॥ १२ ॥ ततः समु- ॥६८७॥ चिते काले, महानन्दपुरःसरम् । जनकेनैव मे नाम, स्थापितं गुणधारणः॥ १३ ॥ पञ्चभिश्चारुधात्रीभिर्ललितोऽमरवदिवि । ततोऽहंद्र CIRCANCE Join Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy