SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ उपमिती स.७-प्र. ॥ ६८६॥ प्रोवाच, शेषामात्मकथानिकाम् ॥ १०२४ ॥ उक्तं च तेन–अन्यदा भार्यया भद्रे !, नीतोऽहं भद्रिले पुरे । सुतः स्फटिकराजस्य, सुप्रबुद्धमु. जातोऽहं विशदस्तदा ॥ १०२५ ॥ विमलानन्दनश्चारुतारुण्ये वर्तमानकः । सुप्रबुद्धमुनिं दृष्ट्वा, प्रबुद्धो जिनशासने ॥ १०२६ ॥ अतो निशिष्यः भूयो मया दृष्टौ, महत्तमसदागमौ । गृहिधर्मयुतौ भद्रे !, पालिताश्च व्रतादयः ॥ १०२७ ॥ तत्त्वश्रद्धानशुद्धात्मा, स्थितश्चाहं चिरं तदा। विशदः दकिं तु सूक्ष्मपदार्थेषु, विविक्तज्ञानवर्जितः ॥ १०२८ ॥ ततस्तदनुभावेन, जातः पुण्योदयोऽनघः । नीतस्तृतीयकल्पेऽहं, सत्पुरे विबुधा-14 लये ॥ १०२९ ॥ तथाभिमतशब्दादिभोगसम्मर्दसुन्दरे । धारयित्वा सुखेनोचैस्तत्र सागरसप्तकम् ॥ १०३० ॥ ततोऽपि मानवावासे, | ततश्च विबुधालये । इत्थं च कारितो भद्रे !, भूरिवारा गमागमम् ॥ १०३१ ॥ किं बहुना?-बान्धवत्रययुक्तेन, द्वादशापि विलोः | किताः । प्रत्येकं ते मया कल्पाः, कचिन्मुक्तश्च बान्धवैः ॥ १०३२ ॥ एवं च स्थिते-ततो द्वादशकल्पस्थो, मानवावाससम्मुखम् । प्रस्थानं कारितो भद्रे !, भवितव्यतया तया ॥ १०३३ ॥ इति ॥ विमलमपि गुरूणां भाषितं भूरिभव्याः!, प्रबलकलिलहेतुर्यो महा| मोहराजः । स्थगयति गुरुवीर्योऽनन्तसंसारकारी, मनुजभवमवाप्तास्तस्य मा भूत वश्याः॥१०३४ ।। सकलदोषभवार्णवकारणं, त्यजत लोभसखं च परिग्रहम् । इह परत्र च दुःखभराकरे, सजत मा बत कर्णसुखे ध्वनौ ॥ १०३५॥ एतन्निवेदितमशेषवचोभिरत्र, प्रस्तावने तविदमात्मधिया विचिन्त्य । सत्यं हितं च यदि वो रुचितं कथंचित्तूर्ण तदस्य करणे घटनां कुरुध्वम् ॥ १०३६ ॥ ॥ इत्युपमितिभवप्रपञ्चकथायां महामोहपरिग्रहश्रवणेन्द्रियविपाकवर्णनो नाम सप्तमः प्रस्तावः समाप्तः ॥ ॥६८६॥ F-RAHASAOSALGAOAC Jain Education Inte For Private & Personel Use Only OMjainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy