________________
उपमिती स.७-प्र.
॥ ६८६॥
प्रोवाच, शेषामात्मकथानिकाम् ॥ १०२४ ॥ उक्तं च तेन–अन्यदा भार्यया भद्रे !, नीतोऽहं भद्रिले पुरे । सुतः स्फटिकराजस्य,
सुप्रबुद्धमु. जातोऽहं विशदस्तदा ॥ १०२५ ॥ विमलानन्दनश्चारुतारुण्ये वर्तमानकः । सुप्रबुद्धमुनिं दृष्ट्वा, प्रबुद्धो जिनशासने ॥ १०२६ ॥ अतो निशिष्यः
भूयो मया दृष्टौ, महत्तमसदागमौ । गृहिधर्मयुतौ भद्रे !, पालिताश्च व्रतादयः ॥ १०२७ ॥ तत्त्वश्रद्धानशुद्धात्मा, स्थितश्चाहं चिरं तदा। विशदः दकिं तु सूक्ष्मपदार्थेषु, विविक्तज्ञानवर्जितः ॥ १०२८ ॥ ततस्तदनुभावेन, जातः पुण्योदयोऽनघः । नीतस्तृतीयकल्पेऽहं, सत्पुरे विबुधा-14
लये ॥ १०२९ ॥ तथाभिमतशब्दादिभोगसम्मर्दसुन्दरे । धारयित्वा सुखेनोचैस्तत्र सागरसप्तकम् ॥ १०३० ॥ ततोऽपि मानवावासे, | ततश्च विबुधालये । इत्थं च कारितो भद्रे !, भूरिवारा गमागमम् ॥ १०३१ ॥ किं बहुना?-बान्धवत्रययुक्तेन, द्वादशापि विलोः | किताः । प्रत्येकं ते मया कल्पाः, कचिन्मुक्तश्च बान्धवैः ॥ १०३२ ॥ एवं च स्थिते-ततो द्वादशकल्पस्थो, मानवावाससम्मुखम् । प्रस्थानं कारितो भद्रे !, भवितव्यतया तया ॥ १०३३ ॥ इति ॥ विमलमपि गुरूणां भाषितं भूरिभव्याः!, प्रबलकलिलहेतुर्यो महा| मोहराजः । स्थगयति गुरुवीर्योऽनन्तसंसारकारी, मनुजभवमवाप्तास्तस्य मा भूत वश्याः॥१०३४ ।। सकलदोषभवार्णवकारणं, त्यजत लोभसखं च परिग्रहम् । इह परत्र च दुःखभराकरे, सजत मा बत कर्णसुखे ध्वनौ ॥ १०३५॥ एतन्निवेदितमशेषवचोभिरत्र, प्रस्तावने तविदमात्मधिया विचिन्त्य । सत्यं हितं च यदि वो रुचितं कथंचित्तूर्ण तदस्य करणे घटनां कुरुध्वम् ॥ १०३६ ॥ ॥ इत्युपमितिभवप्रपञ्चकथायां महामोहपरिग्रहश्रवणेन्द्रियविपाकवर्णनो नाम सप्तमः प्रस्तावः समाप्तः ॥
॥६८६॥
F-RAHASAOSALGAOAC
Jain Education Inte
For Private & Personel Use Only
OMjainelibrary.org