________________
उपमितौलादूरं नीतः सदागमः । कचित्तावपि निर्जित्य, ताभ्यामपि निराकृतौ ॥ ९८८ ॥ एवं चानन्तकालं ते, जयभङ्गपरायणाः । देशकालबलं| स.७-प्र. प्राप्य, जाता भद्रे! परस्परम् ॥ ९८९ ॥ अन्यच्च-मामकः पक्षपातोऽभूद्ययोरेव विशेषतः । तयोरेव तदा जातो, जयो भङ्गस्तदन्ययोः ॥ ९९० ॥ अन्यदा मानवावासमध्यवर्तिनि सुन्दरे । पुरे सोपारके पल्ल्या, नीतोऽहं नीरजेक्षणे! ।। ९९१ ॥ वणिजः शालिभद्रस्य,
मासुधाभूता॥६८४॥
ICTभार्याऽस्ति कनकप्रभा। जातस्तस्याः सुतोऽस्मीति, तत्र नाम्ना विभूषणः ॥ ९९२ ॥ अथ सूरिं सुधाभूतमासाद्य शुभकानने । पुन-IRIT विभा. दृष्टौ मया भद्रे!, महत्तमसदागमौ ।। ९९३ ।। ततश्च-तत्त्वश्रद्धानसंपन्नो, भावतो विरतिं विना । जातो गुरूपरोधेन, श्रमणोऽहं त
णस्य दीक्षा दाऽनघे!॥ ९९४ ॥ ततो गृहीतलिङ्गस्य, साधुमध्येऽपि तिष्ठतः । जातं मे कर्मदोषेण, वैभाष्यनिरतं मनः ।। ९९५ ॥ ततः प्रबलतां
निन्दकप्राप्ता, महामोहादयः पुनः । जातौ च भावतो दूरे, महत्तमसदागमौ ।। ९९६ ।। ततो निमित्तमासाद्य, निमित्तविरहेण वा । स्वभावादेव |
ताच सम्पन्नस्तदाऽहं परनिन्दकः ॥९९७।। तपखिनां सुशीलाना, सदनुष्ठानचारिणाम् । अन्येषामपि कुर्वाणो, निन्दा नो शङ्कितस्तदा ॥९९८॥ किं बहुना?-तीर्थेश्वराणां सङ्घस्य, श्रुतस्य गणधारिणाम् । आशातनां दधानेन, मया पृष्ठं न वीक्षितम् ॥ ९९९ ॥ एवं |च-गृहीतयतिवेषोऽपि, पापात्मा गुणदूषकः । महामोहवशाजातो, मिथ्यादृष्टिः सुदारुणः ॥ १००० ॥ ततोऽतिघोरदुभिंदकर्मसङ्घातपूरितः। संजातोऽहं पुनर्भद्रे!, तादृश्या पापचेष्टया ॥ १००१ ॥ ततोऽनन्तं पुनः कालं, दुःखसागरमध्यगः । प्रायः
समस्तस्थानेषु, भ्रमितोऽहं स्वभार्यया ॥ १००२ ॥ समस्तद्रव्यराशेश्च, भवनोदरचारिणः । तदा स्पृष्टं मयोपाध, भ्रमता वर्गणेक्षया ॥१००३ ॥ न सा विपन्न तहुःखं, न सा गाढविडम्बना । लोकेऽस्ति पद्मपत्राक्षि!, या न सोढा तदा मया ॥ १००४॥ एवं वदति संसारिजीवे विस्मितमानसा । जाताऽगृहीतसङ्केता, किंचिद्भावार्थकोविदा ।। १००५ ॥ तथा प्रज्ञाविशालापि, श्रुत्वा तत्तादृशं वचः।
Jain Education
For Private
Personel Use Only
www.jainelibrary.org