________________
उपमितौ
शान्तिसूरेसिवस्य बोधः उच्चता च
स्थस्यापि संपन्नौ, ममेमौ स्मृतिगोचरौ । भुक्तं च सुचिरं दिव्यं, सुखं तत्र मयाऽतुलम् ॥ ९७० ॥ ततो मनुजगत्यन्तः, पाटके काञ्चने स.७-प्र. पुरे । आगतस्य महामोहदोषतो विस्मृताविमौ ॥ ९७१ ॥ इत्थं सङ्ख्याधिका वारा, दृष्टो दृष्टः पुनः पुनः । सदागमयुतो भद्रे!, नष्टो
ऽसौ मे महत्तमः ॥ ९७२ ॥ यतः--विना विरतिभावेन, सङ्ख्यातीतेषु धामसु । श्रद्धानमात्रसंतुष्टो, जातोऽहं श्रावकः पुरा ॥ ९७३॥ १६८३॥
तथा ऋजुत्वादुपरोधाद्बा, कचिच्छ्रद्धानसंयुतः । जातः श्रमणवेषोऽहं, विरत्या रहितो हृदि ॥ ९७४ ॥ अन्यच्च-सङ्ख्यातीता मया वारा, यत्र यत्र विलोकितः । महत्तमः पुनदृष्टस्तत्र तत्र सदागमः ॥ ९७५ ॥ गृहिधर्मेऽपि तन्मूले, दृष्टः सामान्यरूपतः । कचित्कचिन्न दृष्टोऽपि, स महत्तमपार्श्वगः ॥ ९७६ ।। सम्यग्दर्शनयुक्तौ च, गृहिधर्मसदागमौ । सामान्यरूपौ तौ भद्रेऽसङ्ख्यवारा विलोकिती ॥ ९७७ ॥ तदेते बहुशो दृष्टास्त्रयोऽपि वरबान्धवाः । जाताश्च सुखदास्तत्र, विमुक्ताश्चान्तरान्तरा ॥ ९७८ ॥ अन्यच्च-दृष्टश्च केवलो| ऽप्येषोऽनन्तवाराः सदागमः । न त्वनेन विना दृष्टः, स सम्यग्दर्शनः क्वचित् ॥ ९७९ ॥ अन्यच्च-यत्र यत्र समीपस्थः, संजातो मे |महत्तमः । तत्र तत्र वयस्यो मे, जातः पुण्योदयः पुरा ।। ९८० ।। तेन चोत्पादिताः सर्वा, यथेष्टा भोगसम्पदः । वसतो मानवावासे,
पुरे च विबुधालये ॥ ९८१ ॥ तथा—स्थिता कर्मस्थितिलघ्वी, भीतभीताश्च शत्रवः । अन्तर्लीनाः स्थिता भद्रे!, महामोहादयस्तथा | 31॥ ९८२ ॥ यत्र यत्र पुनर्जाताः, प्रबला भावशत्रवः । मत्तः पुण्योदयो नष्टस्तत्र तत्र वरानने! ॥ ९८३ ॥ नष्टे च तत्र जाता मे, तिसर्वा दुःखपरंपरा । भ्रमितोऽनन्तकालं च, भवितव्यतया तया ॥ ९८४ ॥ तथा—स्थितिमा॑धीयसी जाता, कर्मणः क्लिष्टतां गतम् ।
मानसं च पुनर्जातं, तत्त्वश्रद्धानवर्जितम् ॥ ९८५ ॥ अत एवोत्कटा जाता, यत्र यत्र महारयः । ते मत्तस्तत्र तत्रैती, दूरीभूतो सुबान्धवौ ॥ ९८६ ।। विशेषः पुनरेषोऽत्र, कथ्यते ते निराकृतः । स मिथ्यादर्शनाख्येन, सम्यग्दर्शननामकः ॥ ९८७ ॥ ज्ञानसंवरणेनापि,
AAMKAMACHAROS
॥६८३॥
Join Education
For Private Personel Use Only
T
ww.jainelibrary.org