SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ उपमितौ स. ७५. ॥ १८२ ॥ TUCK Jain Education Interio विविधरत्नसुदीधितिरञ्जिते, विकचनीरजखण्डमण्डिते । गुरुनितम्बपयोधरचारुभिः सह वधूभिरमज्जि सरोवरे ॥ ९५२ ॥ तदनु निर्मलहाटकनिर्मितं, विशदरत्नविराजितकुट्टिमम् । लघु सलीलमवाप्य जिनालयं, सुदृढभक्ति कृतं जिनवन्दनम् ॥ ९५३ ॥ अथ सुनिलपत्रकसञ्चयं, मणिमयं जिनभाषितबन्धुरम् । पुलककारि रसेन तु वाचितं, लघु विधाट्य मनोरमपुस्तकम् ॥ ९५४ ॥ ततो यथेष्टशब्दादिसंभोगमुदिताशयः । सागरद्वितयं तत्र, किंचिदूनं व्यवस्थितः ।। ९५५ ॥ तदन्ते मानवावासमानीय विहितस्तया । आमीरोऽहं कलन्दाख्यः, सूनुर्मदनरेणयोः ॥ ९५६ ॥ इतश्च - तत्रायातस्य चार्वङ्गि !, मम तौ चारुबान्धवौ । नागतौ विस्मृतत्वेन, महत्तमसदागमौ ॥ ९५७ ॥ सुतरां विस्मृतो भद्रे !, न दृष्टश्च तदा मया । गृहिधर्मो यतस्ताभ्यां स निर्मुक्तो न दृश्यते ॥ ९५८ ॥ प्राचीनवासनाबन्धात्, केवलं पापभीरुकः । स्थितो भद्रकभावेन, तत्राहं हंसगामिनि ! ॥ ९५९ ॥ पुनस्तदनुभावेन, सत्पुरे विबुधालये । ज्योति - वारिषु नीतोऽहं, गुडिकादानपूर्वकम् ॥ ९६० ॥ स्थितस्तत्रापि सद्भोगसम्पत्तिप्रीणितेन्द्रियः । सुचिरं किं तु तौ दृष्टी, महामोहपरिग्रहौ ॥ ९६९ ॥ संजात तयोर्भूयः, पक्षपातो बृहत्तरः । नितरां विस्मृतावेतौ महत्तमसदागमौ ॥ ९६२ ॥ ततो जीर्णावसाने तां, वितीर्य गुडिकां पुनः । पञ्चाक्षपशुसंस्थाने, नीतोऽहं रुष्टया तया ॥ ९६३ ॥ विहितो दर्दुराकारधारकः केलिशीलया । ततः परं पुनर्भूरि, भ्रमितोऽर्दवितर्दकम् ॥ ९६४ ॥ नानाविधेषु स्थानेषु, भ्रमयित्वा स्वभार्यया । आनीय मानवावासं, पुरे काम्पिल्यनामके ।। ९६५ ।। धराया वसुबन्धोच, सूनुर्वासवनामकः । कृतोऽहं कृतसत्कर्मा, राजपुत्रो मनोरमः ॥ ९६६ ॥ तत्र चासाथ शान्त्याख्यं, सूरिं सद्धर्मदेशकम् । दृष्टाविमौ पुनर्भद्रे !, महत्तमसदागमौ ॥ ९६७ ॥ ततः परिचयादाभ्यां तनूभूताः पुनर्मम । शत्रवः सुहृदाभासा, महामोहादयस्तदा ॥ ९६८ ॥ अथाहमनयोः प्राप्य माहात्म्यं चारुभाषिणि ! । द्वितीयकल्पे संप्राप्तः, सत्पुरे विबुधालये ॥ ९६९ ॥ तत्र For Private & Personal Use Only आभीर भवः शान्तिसूरेर्वासवस्य बोधः उ चता च ॥ ६८२ ॥ www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy