________________
उपमितौ
स. ७प्र.
॥ ६८१ ॥
Jain Education Inter
नज्ञानकारणम् । गुरवः केवलं तस्यां भवन्ति सहकारिणः ॥ ९३३ ॥ तथाहि — अकलङ्के तथा लग्ने, बोधार्थं मे सकोविदे । न श्रद्धानं ममोत्पन्नं, तदा यत्नशतैरपि ॥ ९३४ ॥ ततः परं पुनर्जातोऽनन्तवारा वरानने ! । सदागमेन सम्बन्धः, श्रद्धाशून्यस्तथाप्यभूत् ॥ ९३५ ॥ अतो यदा यदा पुंसो, यावती योग्यता भवेत् । तदा तदा भवत्यस्य, तावानेव गुणोद्भवः ॥ ९३६ ॥ अतः श्रद्धानमात्रं मे, सूक्ष्मज्ञानविवर्जितम् । धर्मघोषोपदेशैस्तैः संजातं योग्यतानुगम् ॥ ९३७ ॥ अन्यच्च — पल्योपमपृथक्त्वे तु क्षीणे कर्मस्थितेस्तदा । गृहिधर्मो मया दृष्टः, सामान्यान्न विशेषतः ॥ ९३८ ॥ पालितानि तदादेशाद्वतानि नियमास्तथा । केचित्तदा मया भद्रे !, श्रद्धासंशुद्धबुद्धिना ॥ ९३९ ॥ ततस्तदनुभावेन, सत्पुरे विबुधालये । कल्पवासिषु नीतोऽहं, गुडिकादानपूर्वकम् ॥ ९४० ॥ अथ सौधर्मकल्पेऽहं, भावराकारधारकः । समुत्थितः क्षणार्धेन, शयनात्तच्च कीदृशम् ? ॥९४१ ॥ - दिव्यपल्यङ्कसत्तूलीरचितं स्पर्शपेशलम् । कोमलामलसच्चेलच्छादितं चित्तनन्दनम् ॥ ९४२ ॥ सुमनोगन्धसद्धूपलसदामोदसुन्दरम् । दिव्यांशुकवरोल्लोचदृष्टिगोचरबन्धुरम् ॥ ९४३ ॥ युग्मम् । तत्र चोद्वेल्लमानेन, बाहुयुग्मेन विस्मितः । किरीटकटकेयूरहारकुण्डलभूषितः । ९४४ || भूषाङ्गरागताम्बूलवनमालाविराजितः । उपविष्टः क्षणाज्जातो, द्योतिताखिलदिक्पथः ॥ ९४५ ॥ ततोऽलं जय नन्देति, जय भद्रेति भाषिण: । सलेखा ललनालोका, लोललोचनचारवः ॥९४६॥ स्तुवन्तो मां मनोहारिवचनैः कर्णपेशलैः । देवोऽसि स्वामिकोऽस्माकमिति किङ्करतां गताः ॥ ९४७ ॥ युग्मम् ॥ ततोऽहं विस्मयोत्फुल्ललोचनः पर्यचिन्तयम् । तां समृद्धिं विलोक्येदं, किं मया सुकृतं कृतम् ? ॥ ९४८ ॥ ततः प्रादुरभूज्ज्ञानं विमलं विमलेक्षणे ! | मया विरोचनावस्थाऽनेन सर्वाऽवधारिता ।। ९४९ ॥ अत्रान्तरे समायातौ महत्तमसदागमौ । तौ च दृष्ट्वा मया ज्ञातं माहात्म्यमनयोरिदम् ।। ९५० ॥ ततस्तौ पूर्ववद्भद्रे !, प्रतिपन्नौ स्वबान्धवौ । कृतं चोत्थाय निःशेषं, कर्तव्यं विबुधोचितम् ।। ९५१ ॥ तथाहि
For Private & Personal Use Only
xxxxx
सुन्दर
स्थितिप्रातिः सौधभवः
।। ६८१ ॥
ww.jainelibrary.org