________________
उपमिती स. ७-प्र.
बुद्धकर. णीयं
"तदिदमाप्य नरेण सुमेधसा, विढपनीयमतोऽपि परं पदम् ॥ ९२६॥ इतरथा पुनरेव निरन्तके, निपतितस्य सुभीमभवाध्वके । कुशल"शम्बलमुत्कलखादनं, ननु विनाऽतुलदुःखपरंपरा ॥ ९२७ ॥ इदमवेत्य जनेन विजानता, कुशलकर्म भवोदधितारकम् । इह विधेयमहो | "विफलं मुधा, न करणीयमिदं नरजन्मकम् ॥ ९२८ ॥” अत्रान्तरे प्रत्यक्षीभूतो मे तस्य मुनेः समीपे भूयोऽपि भगवानयं सदागमः, ततो बुद्धं मया तस्य मुनेर्वचनं, अभिहितं च यन्मया कर्तव्यं तदादिशन्तु भगवन्तः, मुनिनोक्तं-भद्राकर्णय "अवधीरणीयो भवता "भवप्रपञ्चः आराधनीयो विलीनरागद्वेषमोहोऽनन्तज्ञानदर्शनवीर्यानन्दपरिपूर्णः परमात्मा वन्दनीयास्तदुपदिष्टमार्गवर्तिनो भगवन्तः | "साधवः प्रतिपत्तव्यानि जीवाजीवपुण्यपापासवसंवरनिर्जराबन्धमोक्षलक्षणानि नव तत्त्वानि सर्वथा पेयं जिनवचनामृतं नेयं तदङ्गा"झीभावेन अनुष्ठेयमात्महितं उपचेयं कुशलानुबन्धि कुशलं विधेयं निष्कलङ्कमन्तःकरणं हेयं कुविकल्पजल्पजालं अवसेयं भगवद्वचनसारं "विज्ञेयं रागादिदोषवृन्दं लेयं सुगुरुसदुपदेशभेषजं देयं सततं सदाचरणे मानसं अवगेयं दुर्जनप्रणीतकुमतवचनं निमेयं महापुरुषवर्ग-18 | "मध्ये स्वरूपं स्थेयं निष्पकम्पचित्तेने"ति एवं चोपदिशति मधुरभाषिणि भगवति धर्मघोषतपस्विनि संप्राप्तोऽसौ सम्यग्दर्शननामा महत्तमः विलोकितो दुर्भेदकर्मप्रन्थिभेदद्वारेणासौ मया ततः संजातं मे तत्र मुनिवचने स्वरुच्या श्रद्धानं प्रतिपन्नोऽसौ हितबन्धुबुद्ध्या मह|त्तमः, अभिहितो मुनिवरः यदाज्ञापयति नाथस्तदेवाहं करिष्ये, ततोऽभिवन्द्य तं मुनिवरं गतोऽहं स्वभवने । ततः प्रभृति जातोऽहं,
सम्यग्दर्शनसंयुतः । तत्त्वश्रद्धानपूतात्मा, विशिष्टज्ञानवर्जितः॥ ९२९ ॥ तदेव सत्यं निःशकं, यजिनेन्द्रैः प्रवेदितम् । एतावन्मात्रतुष्टो|ऽहं, तदा जातो वरानने! ॥ ९३० ॥ सदागमो हि विज्ञानं, स्वमावेदयते तदा । केवलं सूक्ष्मभावेषु, न मे बोधः प्रवर्तते ।। ९३१ ।। Pान संजातास्तदा सूक्ष्मविविक्तज्ञानहेतवः । गुरवः पटुवाचोऽपि, विना मे निजयोग्यताम् ॥९३२॥ यतः-स्वयोग्यतैव चार्वङ्गि!, श्रद्धा
॥६८०॥
Jan Education
For Private
Personel Use Only
vwww.jainelibrary.org