SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ उपमिती स.७प्र. ॥६७९॥ से प्रस्तावो हन्त मादृशाम् ॥ ९०८ ॥ सद्बोधेनोक्तं-चार चारूदितं तात !, सम्यक् संलक्षितोऽवधिः । ततो विज्ञापितस्तेन, सद्बोधेन । नरेश्वरः ॥ ९०९ ॥ ततश्च-चारित्रधर्मराजेन, वचनात्तस्य मत्रिणः । प्रहितो मत्समीपेऽसौ, सम्यग्दर्शननामकः ॥ ९१० ॥ तेन चोक्तं विद्येयं नीयतां देव!, प्राभृतं कन्यकाऽनघा । तस्य संसारिजीवस्य, येन तोषोऽस्य जायते ॥ ९११ ॥ सद्बोधः प्राह नाद्यापि, प्रस्तावोऽस्या महत्तम! । नयने हन्त विद्यायास्तत्राकर्णय कारणम् ॥ ९१२ ॥ स हि संसारिजीवस्तां, मुग्धबुद्धिर्न भोत्स्यते । विशेषतस्ततस्तावत्सामान्येन प्रपत्स्यते ॥ ९१३ ॥ एवं च स्थिते-यावन्न तात्त्विकं रूपं, तवानेनावधारितम् । तावन्न युज्यते दातुमेषा तस्मै सुकन्यका ।। ९१४ ॥ अज्ञातकुलशीलो हि, कुर्यादस्याः पराभवम् । ततः स्थाञ्चित्तसंतापो, मादृशां तन्निमित्तकः ॥ ९१५ ॥ ततो गच्छ विना विद्या, त्वं तावत्तस्य सन्निधौ । कालेन भूयसा रूपं, भोत्स्यते हि स तावकम् ॥ ९१६ ॥ ततश्च-यदा स्यात्तेन विज्ञातं, रूपं विरोचनतव परिस्फुटम् । तदाऽहमागमिष्यामि, विद्यामादाय तेऽन्तिके ॥ ९१७ ॥ सदागमस्य सानाभ्यं, महामोहादितानवम् । तथा संसारि भवः जीवस्य, सुखखादादिवेदनम् ॥ ९१८ ॥ देवे चाभिमुखीभावस्तस्य दर्शनकाम्यया । विद्यया रहितस्यापि, गच्छतस्तत्र ते गुणाः॥९१९॥ | युग्मम् ॥ ततो यदादिशत्यार्यो, यच्चाऽऽज्ञापयति प्रभुः । इत्युक्त्वा प्रस्थितस्तूर्ण, मत्समीपं महत्तमः ॥९२०॥ इतश्चाहं तदा भद्रे !, नगरे धर्मघोषजनमन्दिरे । सूनुरानन्दनन्दिन्योर्जातो नाम्ना विरोचनः॥९२१।। ततः संप्राप्ततारुण्यः, कानने चित्तनन्दने । गतस्तत्र मया दृष्टो, मुनिदेशना धर्मघोषो मुनीश्वरः ॥ ९२२ ।। इतश्च मे तदा इस्खा, वर्तते कर्मपद्धतिः । महामोहादयो जातास्तनवो भावशत्रवः ।। ९२३ ॥ ततश्च -प्रणम्य तं महाभाग, निषण्णः शुद्धभूतले । ज्ञातोऽहं भद्रकस्तेन, ज्ञानालोकेन धीमता ॥ ९२४ ॥ किं च-कुर्वता मानसानन्दममृ- ॥६७९॥ तक्षरणोपमम् । ततो मे कर्तुमारब्धा, मुनिना धर्मदेशना ॥९२५।। कथम् ? -मनुजजन्म जगत्यतिदुर्लभं, जिनमतं पुनरत्र विशेषतः। ऊस Jain Education Interna For Private & Personel Use Only Shivaww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy