SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ उपमिती स.७प्र. ॥६७९॥ से प्रस्तावो हन्त मादृशाम् ॥ ९०८ ॥ सद्बोधेनोक्तं-चार चारूदितं तात !, सम्यक् संलक्षितोऽवधिः । ततो विज्ञापितस्तेन, सद्बोधेन । नरेश्वरः ॥ ९०९ ॥ ततश्च-चारित्रधर्मराजेन, वचनात्तस्य मत्रिणः । प्रहितो मत्समीपेऽसौ, सम्यग्दर्शननामकः ॥ ९१० ॥ तेन चोक्तं विद्येयं नीयतां देव!, प्राभृतं कन्यकाऽनघा । तस्य संसारिजीवस्य, येन तोषोऽस्य जायते ॥ ९११ ॥ सद्बोधः प्राह नाद्यापि, प्रस्तावोऽस्या महत्तम! । नयने हन्त विद्यायास्तत्राकर्णय कारणम् ॥ ९१२ ॥ स हि संसारिजीवस्तां, मुग्धबुद्धिर्न भोत्स्यते । विशेषतस्ततस्तावत्सामान्येन प्रपत्स्यते ॥ ९१३ ॥ एवं च स्थिते-यावन्न तात्त्विकं रूपं, तवानेनावधारितम् । तावन्न युज्यते दातुमेषा तस्मै सुकन्यका ।। ९१४ ॥ अज्ञातकुलशीलो हि, कुर्यादस्याः पराभवम् । ततः स्थाञ्चित्तसंतापो, मादृशां तन्निमित्तकः ॥ ९१५ ॥ ततो गच्छ विना विद्या, त्वं तावत्तस्य सन्निधौ । कालेन भूयसा रूपं, भोत्स्यते हि स तावकम् ॥ ९१६ ॥ ततश्च-यदा स्यात्तेन विज्ञातं, रूपं विरोचनतव परिस्फुटम् । तदाऽहमागमिष्यामि, विद्यामादाय तेऽन्तिके ॥ ९१७ ॥ सदागमस्य सानाभ्यं, महामोहादितानवम् । तथा संसारि भवः जीवस्य, सुखखादादिवेदनम् ॥ ९१८ ॥ देवे चाभिमुखीभावस्तस्य दर्शनकाम्यया । विद्यया रहितस्यापि, गच्छतस्तत्र ते गुणाः॥९१९॥ | युग्मम् ॥ ततो यदादिशत्यार्यो, यच्चाऽऽज्ञापयति प्रभुः । इत्युक्त्वा प्रस्थितस्तूर्ण, मत्समीपं महत्तमः ॥९२०॥ इतश्चाहं तदा भद्रे !, नगरे धर्मघोषजनमन्दिरे । सूनुरानन्दनन्दिन्योर्जातो नाम्ना विरोचनः॥९२१।। ततः संप्राप्ततारुण्यः, कानने चित्तनन्दने । गतस्तत्र मया दृष्टो, मुनिदेशना धर्मघोषो मुनीश्वरः ॥ ९२२ ।। इतश्च मे तदा इस्खा, वर्तते कर्मपद्धतिः । महामोहादयो जातास्तनवो भावशत्रवः ।। ९२३ ॥ ततश्च -प्रणम्य तं महाभाग, निषण्णः शुद्धभूतले । ज्ञातोऽहं भद्रकस्तेन, ज्ञानालोकेन धीमता ॥ ९२४ ॥ किं च-कुर्वता मानसानन्दममृ- ॥६७९॥ तक्षरणोपमम् । ततो मे कर्तुमारब्धा, मुनिना धर्मदेशना ॥९२५।। कथम् ? -मनुजजन्म जगत्यतिदुर्लभं, जिनमतं पुनरत्र विशेषतः। ऊस Jain Education Interna For Private & Personel Use Only Shivaww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy