________________
उपमितौ स. ७-प्र.
॥ ६७८ ॥
Jain Education Inter
कालयापनाम् ॥ ८८९ ॥ ततो महर्द्धिसंपन्नः सार्धं पल्योपमं मुदा । सुखं यथेष्टं भुञ्जानः, स्थितोऽहं चारुलीलया ।। ८९० ।। तदन्ते गुडिकां दत्त्वा भार्यया तुष्टचित्तया । पुरेऽहं मानवावासे, समानीतः पुनस्तया ॥ ८९१ ॥ तत्रास्ति बन्धुदत्तस्य, वणिजः प्रियदर्शना । भार्या तस्याः सुतत्वेन, जातोऽहं बन्धनामकः || ८९२ ॥ संप्राप्तयुवभावेन, सुन्दराख्यो मुनीश्वरः । दृष्टो मया समीपस्थस्तस्य चायं सदागमः ॥ ८९३ ॥ शिक्षितं पुनरप्यस्य, सम्बन्धि ज्ञानमल्पकम् । जातश्चाहं तदा भद्रे !, श्रमणो भाववर्जितः ।। ८९४ ॥ गतस्तदनुभावेन, भूयोऽहं विबुधालये । महर्द्धिर्विबुधस्तत्र, जातो व्यन्तरपाटके ।। ८९५ ॥ न नीतो विस्मृतत्वेन, मया तत्र सदागमः । गतेन मानवावासे, पुनश्च प्रविलोकितः ॥ ८९६ ॥ एवं विचरताऽनन्ते, भवचक्रे पुनः पुनः । तथाऽनन्तेन कालेन, मया भार्यानियोगतः ॥ ८९७ ॥ अयं सदागमो भद्रे !, महात्मा प्रविलोकितः । अनन्तवारा दृष्टोऽपि, विस्मृतश्च पुनः पुनः ॥ ८९८ ॥ युग्मम् ॥ विस्मृते च पुनर्भ्रान्तं भवचक्रं निरन्तकम् । आसादितः कथंचिच, पुनरेष सदागमः ।। ८९९ ॥ यतः - अनन्तवाराः संपन्नः, श्रावकोऽहं सुलोचने ! । द्रव्यतो यतिरूपश्च तत्र दृष्टः सदागमः ॥ ९०० ॥ विमुच्येमं महाभागं, भूयो भूयोऽन्तरान्तरा । भ्रान्तः समस्तस्थानेषु कृता नाना विडम्बना: ॥ ९०९ ॥ कुतीर्थिकयतिश्चाहं सदागमविदूषकः । अनन्तवारा: संपन्नो भवचक्रे निरन्तके ।। ९०२ ॥ अन्यच्च भ्रमतस्तत्र, भवचक्रे ममाखिले । कचिद्दीर्घा कचिद्धस्वा, संजाता कर्मणः स्थितिः ॥ ९०३ ॥ क्वचिच्च प्रबला जाता, महामोहादिशत्रवः । कचित्सदागमो जातः, प्रबलस्तन्निवारकः ॥ ९०४ ॥ ततश्चानन्तवाराभिर्यावद्भ्यासमागतः । अयं सदागमस्तावज्जातं यत्तन्निबोध मे ।। ९०५ ॥ सा किंचिन्निर्मलीभूता, चित्तवृत्तिर्महाटवी । ततश्चावसरं ज्ञात्वा, प्रस्थितः स महत्तमः ॥ ९०६ ॥ उक्तश्चानेन सद्बोधो, मत्समीपागमेच्छया । आर्य ! विज्ञाप्यतां देवः, साम्प्रतं गम्यतां मया ॥ ९०७ ॥ यस्त्वया पूर्वनिर्दिष्टो देवस्याग्रे नरोत्तम ! । सोऽधुना वर्तते लग्नः,
For Private & Personal Use Only
बन्धभवः भवभ्रमश्च
सम्यग्दर्श
नागमः
॥ ६७८ ॥
www.jainelibrary.org