________________
उपमितौ
स. ७-प्र.
॥ ६७४ ॥
Jain Education Inter
तदा पुनः ॥ ८१४ ॥ तथा रौद्रार्तध्यानसंयुक्तः, पापात्मा पापचेष्टितः । विहितोऽहं विशालाक्षि !, तेन दुष्टाभिसन्धिना ॥ ८१५ ॥ तथाऽन्यैरपि तत्काले, महामोहे समीपगे । ममाविर्भावितं भद्रे !, स्वं स्वं वीर्यं महाभटैः ॥ ८१६|| अकलङ्केन मुक्तत्वादनाथ इव निर्भयैः । इत्थं खलीकृतोऽत्यन्तं, तैरहं भावशत्रुभिः ॥ ८१७ ॥ अथान्यदा समायातो, मत्कदर्थनकाम्यया । महामोहनरेन्द्रस्य समीपे मकरध्वजः ।। ८१८ ॥ स च स्वीयां रतिं भार्या, रागकेसरिमत्रिणम् । पश्चमानुषसंयुक्तं तच्च तस्य कुटुम्बकम् ।। ८१९ ॥ एतां सर्वां समासाद्य, सामग्रीं कार्यसिद्धये । संनद्धबद्धकवचस्तदा प्राप्तो मृगेक्षणे ! ॥ ८२० ॥ ततस्तुष्टो महामोहो, मकरध्वजमीलनात् । सोऽप्यासाद्य महामोहं परं हर्षमुपागतः ॥८२१॥ ततस्तेन युतः साक्षात् संनद्धो गन्धवारणः । संपन्नोऽसौ महामोहो, जातो मेऽत्यन्तबाधकः ॥८२२॥ शब्दरूप रसस्पर्शगन्धलुब्धोऽन्धसन्निभः । गाढं निर्नष्टसद्बोधः, संजातोऽहं ततस्तदा । ८२३ ॥ गर्ताशूकरसङ्काशो, विपयाशुचिकर्दमे । रात्रिंदिवं निमग्नात्मा, स्थितोऽहं विगतत्रपः ॥ ८२४ ॥ सुभूयसाऽपि कालेन, न भोगैस्तृप्तिमागतः । घृतपानेन किं जातः, पीनगण्डोऽत्र वानरः ? || ८२५ ॥ भुञ्जानस्य च मे भोगान् वर्धते भोगतृष्णिका । सुतरामुल्लसत्येव, जलेन वडवानलः || ८२६ ।। अकलङ्कोपदेशास्ते, शशाङ्ककरनिर्मलाः । तदा मे विस्मृताः सर्वे, महामोहघनावृताः ।। ८२७ ।। ततो मां तादृशं दृष्ट्वा, भावशत्रुविचेष्टितम् । न मेऽवसर इत्येवं गतो दूरं सदागमः ॥ ८२८ ॥ यथाभिमतकामांश्च, संपादयति मे तदा । असौ पुण्योदयोऽहं तु विमूढस्तं न लक्षये ॥ ८२९ ॥ ततो विमुक्तनिः शेषराज्यकार्यो दिवानिशम् । अन्तःपुरगतः स्त्रैणं, भुञ्जानोऽहमवस्थितः ॥ ८३० ॥ तथा — यां यां नारीं प्रपश्यामि नगरे चारुविग्रहाम् । कुलजामकुलजां वा, यां वा कश्चिन्निवेदयेत् ॥ ८३१ ॥ तां तां सर्वां समाकृष्य, जनेभ्यो बलवत्तया । अन्तःपुरे प्रवेश्याहं, करोमि निजपत्त्रिकाम् ॥ ८३२ ॥ युग्मम् ॥ न जानामि महापापं, नापेक्षे कुलला -
For Private & Personal Use Only
बालिशावस्था
कुलजेतरस्त्रीगामिना
॥ ६७४ ॥
w.jainelibrary.org