SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ बालिशावस्था उपमितौतिद्वशेन मया नैव, विज्ञाता भवदुष्टता ॥ ७९६ ॥ तथा द्वेषगजेन्द्रोऽपि, सनिमित्तानिमित्तकम् । कुर्वन्नप्रीतिसन्तापं, नितरां मे विज़- स. ७प्र. म्भितः ॥ ७९७ ॥ तथा तस्याविवेकिता भार्या, कार्याकार्यविचारणम् । कुर्वन्तं वारयत्युचैस्तदा मां वशवर्तिनम् ॥ ७९८ ॥ तथाहि शब्द रूपे रसे गन्धे, स्पर्श चात्यन्तलोलुपः । वशीकृतोऽहं संपन्नो, रागकेसरिमश्रिणा ॥ ७९९ ॥ प्राप्तेषु गाढमूर्छान्धोऽप्राप्ताकांक्षावि॥६७३॥ डम्बितः । कृतो भोगेषु तस्यैव, भार्यया भोगतृष्णया ॥ ८०० ॥ तथा निर्वादितमुखो हा हा, हासितोऽहं निरर्थकम् । हासेन बहुशो भद्रे !, सद्गाम्भीर्यविरोधिना ।। ८०१ ।। मूत्रानक्लेदजाम्बालमलपूर्णेषु योषिताम् । गात्रेषु रमितो भद्रे !, रत्याऽहं विवशस्तदा ॥ ८०२॥ अरत्यापि महोद्वेगसन्तापाक्रान्तमानसः । कृतोऽहं भूरिशो भद्रे!, कारणैरपरापरैः ॥ ८०३ ॥ मरिष्यामीति 'विश्रान्तो, राज्यं वा मे | हरिष्यते । इत्यादि कारणं प्राप्य, भयेनाहं विनाटितः ॥ ८०४ ॥ मरणं स्निग्धबन्धूनामर्थनाशादिकं तथा । हेतुं संप्राप्य शोकेन, भूयो भयो विडम्बितः ॥ ८०५ ॥ तत्त्वमार्गवियुक्तात्मा, मिथ्याबुद्ध्या तिरोहितः । विवेकिहास्यतां नीतस्तदाऽहं हि जुगुप्सया ॥ ८०६ ॥ तथा-रागकेसरिणः पुत्रा, येऽष्टौ पूर्व विवर्णिताः । सुता द्वेषगजेन्द्रस्य, ये चाष्टौ परिकीर्तिताः ॥ ८०७ ॥ तैस्तदा मे कषायाख्यैर्महामोहपितामहे । समीपस्थे कृतं यत्तु, तदाख्यातुं न पार्यते ॥ ८०८ ॥ युग्मम् । ज्ञानप्रकाशलेशेन, रहितो भावतस्तदा । ज्ञानसंवरनाहं, प्रबलेन कृतः पुनः ।। ८०९॥ तथा-कुर्वन् घुरघुरारावं, काष्ठवन्नष्टचेतनः । दर्शनावरणेनाहं, स्वापितो गतदर्शनः ॥ ८१०॥ तथा-कचिदाहादितोऽत्यन्तं, कचित्सन्तापविह्वलः । कृतोऽहं तेन चार्वङ्गि, वेदनीयेन भूभुजा ॥ ८११ ॥ तथा-आयुष्कनामकेसानापि, नरेन्द्रेण सुलोचने! । घनवाहनरूपेण, तदाऽहं धारितश्विरम् ।। ८१२ ॥ तथा-तेन नामाभिधानेन, भूभुजा वरवीक्षणे! । शरीरे मामके चित्रं, निजवीर्य निदर्शितम् ।। ८१३ ।। तथा गोत्रान्तरायाभ्यां, स्वमाहात्म्यं वरानने! । कृतमेव ममात्यर्थ, चरितार्थ ॥६७३॥ Jain Education Internationa For Private & Personal Use Only Marjainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy