SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ नेच्छा उपमितोल साधूदितं त्वया ॥ ७४१॥ अयं हि सागरो वत्स!, सर्वस्वं मम जीवितम् । मदीयवीर्य निःशेष, भावतोऽत्र प्रतिष्ठितम् ॥ ७४२॥ अकलङ्कस. ७-प्र. अयं निर्मिथ्यभक्तो मे, सागरो मामके बले । मत्पुत्रो राज्ययोग्योऽयमयं ते रक्षणक्षमः ॥ ७४३ ॥ एवं चोल्लासितस्तेन, महामोहेन स्यागम सागरः । संजातो मां वशीकृत्य, स सदागमबाधकः ॥ ७४४ ॥ ततो विवर्धिताकांक्षो, दूरीकृतसदागमः । संजातस्त्यक्तकृत्योऽहं, यथा ॥६७॥ पूर्व तथा पुनः ॥ ७४५ ॥ ततो मदीयवृत्तान्तं, समाकर्ण्य कृपापरः । भूयः प्रचलितो भद्रे !, सोऽकलको मदन्तिकम् ॥ ७४६ ॥ ततः कृतप्रणामेन, तेन कोविदसूरयः । विज्ञापिता ब्रजामीति, दीपयित्वा प्रयोजनम् ॥ ७४७ ॥ अथ निश्चित्य सद्भावं, प्राहुः कोविदसूरयः। निरर्थकोऽयं ते शस्ततो मा गास्तदन्तिकम् ॥ ७४८ ॥ तथाहि-यावत्तस्य समीपस्थी, महामोहपरिग्रहौ । तावन्नाद्यापि कर्मण्यः, स8 तात! घनवाहनः ॥ ७४९ ॥ यतः-आगच्छन्ति तयोः पार्श्वे, नियमात्सागरादयः । तेषामाश्रयभूतौ तौ, सर्वेषां मूलनायकौ ॥७५०॥ वशे च वर्तमानस्य, तस्य तेषां दुरात्मनाम् । कोपदेशाः क वा धर्मः, क सदागममीलकः ॥ ७५१ ॥ बधिरे कर्णजापोऽयमन्धे नृत्तप्रदर्शनम् । ऊपरे बीजनिक्षेपस्तस्य या धर्मदेशना ॥ ७५२ ॥ यतः अत्यल्पस्तस्य संस्कारस्तावकीनेन जायते । वचनेन क्षतिगुर्वी, स्वाध्यायस्य भवादृशाम् ॥ ७५३ ॥ अन्यच्च-बोधितो बोधितो भूयः, स शेते भावनिद्रया । यावदेतौ समीपस्थी, महामोहपरिग्रहो| ॥ ७५४ ॥ तदलं ते गतेनार्य!, घनवाहनसन्निधौ । स्वकार्यहानिदे कृत्ये, न वर्तन्ते विचक्षणाः ॥ ७५५ ॥ अकलकेनोक्तं-भ-1 दन्तानर्थहेतुभ्यां, ताभ्यां सार्थ तपस्विनः । कदा पुनर्वियोगः स्याद्, धनवाहनभूभुजः ॥७५६॥ गुरुणोक्तं विजानन्ति, तं प्रायेण भवा-x दृशाः । चारित्रधर्मराजस्य, प्रसिद्धो यो महत्तमः ।। ७५७ ॥ चारित्रधर्मयुक्तेन, स्ववीर्येण विनिर्मिता । तेनास्ति मानसी कन्या, विद्या ॥६७०॥ नाम मनोहरा ।। ७५८ ॥ सा सुरूपा विशालाक्षी, जगदाहादकारिणी । विज्ञातविश्वभावार्था, सर्वावयवसुन्दरी ।। ७५९ ॥ विलसन्ती in Education in For Private & Personal Use Only # jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy