SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ उपमितौ स. प्र. सागरः, पृष्टोऽनेन रागकेसरी, कृता तेनानुज्ञा, बहुलिकयोक्त–तात! यत्र सागरोगच्छात तत्र मयापि यातव्यं, यतो विदितमेवेदं तातस्य .. सागरकृन खल्वेष सागरः क्षणमपि मया विना वर्तते, रागकेसरिणोक्तं-वत्से! यद्येवं ततो गच्छतु भवती, किं च-इयमपि कृपणता सागरस्य पणताssशरीरभूता जीवितभूता च वर्तते तदेषाऽपि गच्छतु येनास्य धृतिः संपद्यते, सागरेणोक्तं–तात! महाप्रसादः, ततः समागतानि तानि म- गमः दभ्यर्णे, हृष्टौ तदर्शनेन महामोहपरिग्रहौ, समालिङ्गितोऽहं कृपणतया, ततः प्रवृत्ता ममेच्छा-यदुत किमनेन ममादृष्टपरलोकसाधने च्छया दृष्टसुखहेतुना धनेन व्ययितेन प्रयोजनं ?, अयं चाकलङ्कः प्रतिदिनं मामुत्सायति यथा यदि भावस्तवकरणे नाद्यापि तवोत्साहः। ४ ततो महाराज घनवाहन! द्रव्यस्तवकरणे तावदादरं कुरुष्वेति, व्ययितं च तहारेण बहुतमं धनं वर्तते तदत्र किं करवाणीति चिन्तयतो मे विहितं बहुलिकयाऽऽलिङ्गनं, ततः प्रादुर्भूता मे कुबुद्धिः-यथा प्रेषयामीतः केनचिद्वचनविन्यासेन तावदेनमकलङ्क, ततो न भविष्यति ममायं धनव्ययः, ततोऽभिहितो मयाकलङ्कः-यथा भदन्त ! मदुपकारार्थमिहागता यूयं, अतः संपादितो ममोपकारः संपूर्णो भवतां मासकल्पः ततस्ते युष्मदर्थमुन्मनीभविष्यन्ति भगवन्तः कोविदाचार्याः संजनिष्यतेऽस्माकमुपालम्भः ततो विहरत यूयं वयं च करिष्यामो | युष्मदादेशं, न भगवद्भिश्चिन्ता कार्येति, तदाकर्ण्य विहतोऽकलङ्कः प्राप्तो गुरुसमीपं-ततो भूयोऽपि धर्मार्थ, विनिवार्य धनव्ययम् ।। संजातः सागरादेशादहं रक्तः परिग्रहे ।। ७३६ ॥ ततः परिग्रहेणोक्तः, सागरो मित्रवत्सल! । नीयमानः क्षयं साक्षादहं भो रक्षित-| स्त्वया ॥ ७३७ ॥ त्वत्तोऽपि मे विशेषेण, संपन्ना भ्रातृवत्सला । एषा कृपणता मित्र!, मम जीवितदायिका ॥ ७३८ ॥ गाढं बहुलिकाप्येषा, ज्ञेया मदुपकारिणी । सोऽकलको महाशत्रुर्गाढं निर्वासितो यया ॥ ७३९ ॥ तच्चारु विहितं चारु, यदागत्य नरोत्तम!।। । ६६९॥ संदर्शिताऽऽर्यके भक्तिः, पालितोऽयं त्वया जनः ।। ७४०॥ एवं च भाषमाणं तं, महामोहः परिग्रहम् । प्रत्युवाच यथा वत्स!, साधु Jain Education International For Private & Personel Use Only Kurjainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy