________________
उपमितौ स. प्र.
सागरः, पृष्टोऽनेन रागकेसरी, कृता तेनानुज्ञा, बहुलिकयोक्त–तात! यत्र सागरोगच्छात तत्र मयापि यातव्यं, यतो विदितमेवेदं तातस्य .. सागरकृन खल्वेष सागरः क्षणमपि मया विना वर्तते, रागकेसरिणोक्तं-वत्से! यद्येवं ततो गच्छतु भवती, किं च-इयमपि कृपणता सागरस्य पणताssशरीरभूता जीवितभूता च वर्तते तदेषाऽपि गच्छतु येनास्य धृतिः संपद्यते, सागरेणोक्तं–तात! महाप्रसादः, ततः समागतानि तानि म- गमः दभ्यर्णे, हृष्टौ तदर्शनेन महामोहपरिग्रहौ, समालिङ्गितोऽहं कृपणतया, ततः प्रवृत्ता ममेच्छा-यदुत किमनेन ममादृष्टपरलोकसाधने
च्छया दृष्टसुखहेतुना धनेन व्ययितेन प्रयोजनं ?, अयं चाकलङ्कः प्रतिदिनं मामुत्सायति यथा यदि भावस्तवकरणे नाद्यापि तवोत्साहः। ४ ततो महाराज घनवाहन! द्रव्यस्तवकरणे तावदादरं कुरुष्वेति, व्ययितं च तहारेण बहुतमं धनं वर्तते तदत्र किं करवाणीति चिन्तयतो
मे विहितं बहुलिकयाऽऽलिङ्गनं, ततः प्रादुर्भूता मे कुबुद्धिः-यथा प्रेषयामीतः केनचिद्वचनविन्यासेन तावदेनमकलङ्क, ततो न भविष्यति ममायं धनव्ययः, ततोऽभिहितो मयाकलङ्कः-यथा भदन्त ! मदुपकारार्थमिहागता यूयं, अतः संपादितो ममोपकारः संपूर्णो भवतां मासकल्पः ततस्ते युष्मदर्थमुन्मनीभविष्यन्ति भगवन्तः कोविदाचार्याः संजनिष्यतेऽस्माकमुपालम्भः ततो विहरत यूयं वयं च करिष्यामो | युष्मदादेशं, न भगवद्भिश्चिन्ता कार्येति, तदाकर्ण्य विहतोऽकलङ्कः प्राप्तो गुरुसमीपं-ततो भूयोऽपि धर्मार्थ, विनिवार्य धनव्ययम् ।। संजातः सागरादेशादहं रक्तः परिग्रहे ।। ७३६ ॥ ततः परिग्रहेणोक्तः, सागरो मित्रवत्सल! । नीयमानः क्षयं साक्षादहं भो रक्षित-| स्त्वया ॥ ७३७ ॥ त्वत्तोऽपि मे विशेषेण, संपन्ना भ्रातृवत्सला । एषा कृपणता मित्र!, मम जीवितदायिका ॥ ७३८ ॥ गाढं बहुलिकाप्येषा, ज्ञेया मदुपकारिणी । सोऽकलको महाशत्रुर्गाढं निर्वासितो यया ॥ ७३९ ॥ तच्चारु विहितं चारु, यदागत्य नरोत्तम!।।
। ६६९॥ संदर्शिताऽऽर्यके भक्तिः, पालितोऽयं त्वया जनः ।। ७४०॥ एवं च भाषमाणं तं, महामोहः परिग्रहम् । प्रत्युवाच यथा वत्स!, साधु
Jain Education International
For Private & Personel Use Only
Kurjainelibrary.org