________________
2-56
उपमितौ स. ७-प्र.
॥६६८॥
“थिलय परिप्रहं अनुवर्तय सदागर्म समाचर तदुपदेशं जनय मम चित्तप्रमोद, किं विस्मृतं भवतोऽधुनैव तत्साधुनिवेदितं भवप्रदीपनकं ?, पुनर्देश"किं न स्मरसि तत्संसारापानकं ? किं न चिन्तयसि तं भवारघट्ट ? किं न ध्यायसि तं सकर्मकजीवचट्टमठवृत्तान्तं ? किं न पर्यालोच- नायाः “यसि तां मनुष्यजन्मरत्रद्वीपदुर्लभतां ? किं न निर्विद्यसे वसंस्तत्र जन्मसन्तानहटमार्गे ? किं विस्मारयसि तां चित्तवानरलीवरूपतरलतां ? शोकनाशः "किं नानुशीलयसि तस्यैव सततं रक्षणं ? किं बंभ्रमीषि तेषु विषयविषवृक्षेषु? किं लुठसि तस्मिन्ननर्थनिचयसंज्ञे पत्रकुसुमफलरजःकचवरे किं "निपातयसि जानन्नपि मोक्षमार्गमात्मानं घोरेषु महानरकेषु? किं नारोयसि तेनोपायेनात्मानं तत्र सततानन्दे शिवालयमठे?, संसारे "हि निवसतां महाराज! देहिनां करतलस्थानि व्यसनानि सुलभाः प्रियजनविप्रयोगाः अदूरगा महाव्याधयः प्रत्यासन्नानि दुःखानि अव"श्यंभावीनि मरणानि, ततः पुरुषस्य विमलविवेक एवात्र त्राणं नापरमिति” । ततोऽहं भद्रेऽगृहीतसङ्केते ! गाढप्रसुप्त इव प्रतिबोधकध्वनिपरम्परया विषघूर्णित इव सस्फुरमबापमार्जनया मदिरामत्त इव शीघ्रभयदर्शनतया मूछित इव सलिलशीकरव्यजनक्रियया उन्मत्तक ४|इव सुवेद्यप्रयुक्तभेषजमालिकया तयाऽकलङ्कवचनपद्धत्या संजातः प्रत्यागतचेतनः ।। ततः शोकेन प्रणम्याभिहितो महामोहः-यथा देव! |व्रजाम्यहं नायमकलको मह्यमिहासितुं ददाति, महामोहः प्राह-वत्स! विषमोऽयमकलङ्कः प्रतारयति लग्नोऽमुं धनवाहनं, आवयोरपि | यत्किमप्यत्र भविष्यति तन्नाद्यापि जानीमः तद्गच्छ तावत्त्वं, केवलं पुनः प्रतिजागरणं विधेयं केनापि भवताऽऽवयोरिति, शोकेनोक्तंयदाज्ञापयति देवः, ततो गतः शोकः प्रतिपन्नं मयाऽकलङ्कवचनं वल्लभीकृतः सदागमः अवधीरितो मनाङ् महामोहपरिग्रही उज्वलितं पूर्वपठितं विहितोऽपूर्वश्रुतग्रहणादरः कारितानि जिनभवनबिम्बादीनि प्रवर्तितानि यात्रास्त्रात्रपात्रदानप्रभृतीनि, ततः कृतो मया तावदेष| In६६८॥ गुणभाजनमिति संतुष्टोऽकलङ्कः, अत्रान्तरे प्रियमित्रपरिग्रहोन्मायकेन विधुरितहृदयः प्रवृत्तो मत्समीपागमनाय महामोहप्रतिजागरकः
Jain Education in de
For Private & Personal Use Only
N
w.jainelibrary.org