________________
उपमिती स.७-प्र.
पुनरकलकागमः देशनायामप्यबोधः
॥६६७॥
कलङ्कः कृपया, मत्समीपमुपागतः ॥ ७१९ ।। ततः स मां महाभागो, दृष्ट्वा शोकवशीकृतम् । विमुक्ताशेषसत्कृत्यं, दययेदमभाषत ॥ ७२० ॥ किमिदं भोः समारब्धं, भवता धनवाहन! । किं मे विस्मारितं वाक्यं, किं वा त्यक्तः सदागमः ? ॥ ७२१ ॥ किमेष दुष्टलोकेन, भवानेवं खिलीकृतः। कृतं च ज्ञाततत्त्वेन, किमिदं बालचेष्टितम् ? ।। ७२२ ॥ यां च ते स्मरतो नित्यं, देवी मदनसुन्दरीम् । शोकोऽयं बाधते चित्तं, तत्कार्य किं न बुध्यसे ? ।। ७२३ ॥ तथाहि-सर्वेऽमी जन्तवो नित्यं, कृतान्तमुखकोटरे । वर्तन्तेऽतः क्षणं भूप!, यज्जीवन्ति तद्भुतम् ।। ७२४ ॥ स हि नापेक्षतेऽवस्था, प्रेमाबन्धनसुन्दराम् । दलयत्येव भूतानि, मत्तवद्गन्धवारणः ॥ ७२५ ॥ यद्यत्सजनसत्पद्म, जननेत्रमनोहरम् । तत्तन्निपातयत्येष, कृतान्तहिमशीकरः ॥ ७२६ ॥ न मत्रा न धनं भूरि, न वैद्या न |च भेषजम् । न बान्धवा न देवेन्द्रा, मृत्यो रक्षन्ति देहिनम् ।। ७२७ ॥ इत्यदृष्टप्रतीकारे, जाते मरणविडरे । सिद्धोऽयं मार्ग इत्येवं, ज्ञात्वा को विह्वलो भवेत् ? ॥ ७२८ ।। तदेवं कुरुते नित्यमश्रान्तो धर्मदेशनाम् । सोऽकलको महाभागो, मत्तः शोकगमेच्छया ।। ७२९॥ अहं पुनर्महामोहवशगस्तां न लक्षये । नष्टबुद्धिः प्रलापेन, तं शोकमनुवर्तयन् ॥ ७३० ॥ कथं! हा बाले हा प्रिये मुग्धे, हा चा-15 वङ्गि! वरानने । हा पद्मनेत्रे हा सुभ्र, हा कान्ते वल्गुभाषिणि! ।। ७३१ ॥ हा भर्तृवत्सले देवि!, हा हा मदनसुन्दरि! । क गताऽसि विहायेम, रुदन्तं धनवाहनम् ? ॥७३२। दीयतां दर्शनं तूर्ण, संभाषो मे विधीयताम् । लीयतां मामके देहे, वैक्लव्यमपनीयताम् ॥७३३।। इत्येवं प्रलपन्नुच्चैरकलङ्कस्य धीमतः । भद्रे! तत्तादृशं वाक्यं, न जानामि विचेतनः ॥ ७३४ ॥ दयापरीतचित्तोऽसौ, ततो मां वीक्ष्य तादृशम् । अकलङ्कस्तदा भद्रे, पुनः प्राह महामतिः ॥ ७३५ ॥ यथा "भो भो महाराज धनवाहन! न युक्तमीदृशं भवादृशां विधातुं "बालचरितं तत्परित्यज क्लीबतां उररीकुरु धीरतां स्वस्थतां नयान्तःकरणं स्मरात्मानं विरहयेममेकान्तेनाहितं महामोहं मुञ्च शोक शि
SORNSRCSNA
॥६६७॥
Jain Education in
For Private & Personel Use Only
M
w.jainelibrary.org