SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ उपमिती स. ७-प्र. ॥६६४॥ युतकोविदागमः श्रुतिसङ्गवृत्तान्तः धिपः । शुभाशुभकरत्वेन, लोके विश्वास्यतां गतः ।। ६६९ ॥ एवं च स्थिते-इयं चरटकन्येति, मत्वा नाङ्गीकरिष्यति । अयं जनस्तका तस्तेन, रागकेसरिमत्रिणा ॥ ६७० ।। दासं दत्त्वाऽप्रतः स्वीयं, सङ्गं सम्बन्धकारिणम् । महाराजसुतात्वेन, ख्यापितेयं श्रुतिः पुरा ॥६७१।। युग्मम् । स कर्मपरिणामोऽस्या, जनकस्तेन गीयते । सुतेयं परमार्थेन, रागकेसरिमत्रिणः॥६७२।। जगतो वञ्चकत्वेन, या च तेन दुरात्मना । प्रयुक्तेयं कुतस्तस्या, हितत्वं हन्त विद्यते ? ॥ ६७३ ॥ ततश्च-यद्यपीयं कृता भार्या, भवता भर्तृवञ्चिका । मा कार्षीभद्र ! विश्वासं, तथाप्यस्यां कदाचन ॥ ६७४ ॥ न चेयं शक्यतेऽद्यापि, विहातुं निजपत्निका । केवलं वर्जनीयोऽयं, सर्वथा दासदारकः| ॥ ६७५ ॥ अनेन रहिताऽत्यन्तं, श्रुतिः सङ्गेन पापिना । इयं न विद्यमानापि, भद्र ! ते दोषकारिणी ॥ ६७६ ॥ यतः-अनिष्टशब्दविद्विष्टा, मधुरध्वनिलोलुपा । अस्मात्संजायते सङ्गाच्छ्रुतिरेषा न तु स्वयम् ॥ ६७७ ।। यावच्च प्रेरयत्येषा, रागद्वेषपरायणा । त्वां सङ्गसहिता तात!, तावत्ते दुःखमालिका ॥ ६७८ ॥ अतोऽस्मिन् वर्जिते सङ्गे, शब्दश्रवणतत्परा । भवत्यपीयं मध्यस्था, न ते तात! विबा|धिका ।। ६७९ ॥ तदेष वष्टो दुष्टात्मा, सर्वथा दासदारकः । दुःखकारणभूतस्ते, सङ्गस्त्यजनमर्हति ॥ ६८० ।। ततः प्रपद्य नम्रण, तत्सदागमभाषितम् । कोविदेन परित्यक्तः, स सङ्गः श्रुतिदारकः ।। ६८१ ।। ततः श्रुत्या युतोऽप्येष, शब्दौत्सुक्यविवर्जितः । श्रावय नपि तान् शब्दांल्लोके श्लाघ्योऽभवत्सुखी ॥६८२॥ एवं च ललमानौ तौ, श्रुत्या कोविबालिशौ । सङ्गत्यागमहाज्जातो, सुखदुःखप्रपूरितौ &॥ ६८३ ॥ अथास्ति तुङ्गशिखरो बहिरङ्गो महागिरिः । तत्रान्यदा समारूढौ, भूप! कोविदबालिशौ ॥ ६८४ ॥ तत्रास्ति शिखरे रन्ध्र, विशालं देवनिर्मितम् । अदृष्टमूलं मानुष्यैर्गत्वा भूमौ प्रतिष्ठितम् ॥ ६८५ ॥ इतश्च-एक गान्धर्वमिथुनं, किन्नरं च तथापरम् । गेये परस्परस्पर्द्धा, तदा जाताऽनयोर्द्वयोः ॥ ६८६ ॥ ततः परीक्षकैर्युक्ते. ते रन्ध्रे तत्र दैविके । एकान्तमिति विज्ञाय, परीक्षार्थमुपागते ॥६६४॥ Jain Education in For Private & Personel Use Only Kinaw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy