SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ उपमिती स. ७-प्र. अकलङ्कयुतकोवि. दागमः श्रुतिसङ्गवृत्तान्त: 45पर SAMACHAR तुष्टः स बालिशः । ततश्च चिन्तयत्येवं, महाहर्षवशं गतः ॥ ६५१ ॥ धन्योऽहं कृतकृत्योऽहं, यस्येयं मम सुन्दरी । मनोहरा श्रुतिभर्या, संपन्ना पुण्यकर्मणः ॥ ६५२ ॥ ततस्तं तादृशं मत्वा, श्रुतौ स्नेहपरायणम् । बालिशं मधुरैर्वाक्यैः, स सङ्गः समभाषत ॥६५३॥ अत्यन्तसुन्दरो देव !, दैवेन हितकारिणा । देवेन सार्ध स्वामिन्याः, संयोगो घटितो ह्ययम् ॥ ६५४ ॥ तथाहि-रूपं वयः कुलं शीलं, लावण्यं च परस्परम् । दम्पत्योः प्रेमसहितमनुरूपं सुदुर्लभम् ॥ ६५५ ॥ एतच्च युवयोः सर्व, संपन्नं पुण्यकर्मणा । केवलं वर्धनीयोऽयं, प्रेमाबन्धो मनोहरः॥ ६५६ ॥ ततः स बालिशेनोक्तः, शठात्मा दासदारकः । यथा कथं स वर्धेत ?, स प्राह प्रियसेवनात् ॥ ६५७ ॥ बालिशः प्राह किं तस्याः, प्रियं ? सङ्ग! निवेद्यताम् । सङ्गेनोक्तं यथा देव!, प्रियोऽस्या मधुरो ध्वनिः ॥ ६५८ ॥ बालिशः प्राह यद्येवं, ततस्तस्य निषेवणम् । अश्रान्तः कारयाम्येनां, साधु साधु निवेदितम् ।। ६५९ ॥ महाप्रसाद इत्येवं, ब्रुवाणः स 8 च दारकः । स्नेहान्निवेशितस्तेन, हृदये बालिशेन भोः ! ॥ ६६० ॥ ततश्च काकलीगीतवेणुवीणाकलस्वनम् । तां श्रुतिं श्रावयन्नेष, बालिशो हृदि मोदते ॥ ६६१ ॥ चिन्तयति च-अहो सुखमहो स्वर्गस्तथाऽहो मम धन्यता । यस्येदृशी श्रुतिर्भार्या, सततानन्ददायिका ॥ ६६२ ॥ ततश्च-हृदये दारकं कृत्वा, तं सङ्गं स्नेहनिर्भरः । श्रुतेः स लालनं कुर्वन्नास्ते नित्यं कलखनैः ॥ ६६३ ॥ त्यक्तं तेनान्यकर्तव्यं, धर्माद्रेण स स्थितः । षिङ्गप्रायतया जातो, हास्यश्चासौ विवेकिनाम् ॥ ६६४ ॥ इतश्च कोविदेनापि, प्रनितोऽयं सदागमः ।। मह्यमेषा हिता भार्या, किं वा नेति ? निवेद्यताम् ॥ ६६५ ॥ ततः सदागमेनोक्तं, न हिता ते नरोत्तम! । ससङ्गेयं श्रुतिर्भार्या, तत्राकर्णय कारणम् ।। ६६६ ॥ इयं हि प्रहिता पूर्व, रागकेसरिमत्रिणा । इदं जगदशीकर्तु, पञ्चमानुषमध्यगा ।। ६६७ ।। इतश्च-स कर्मपरिणामस्य, भ्रातृव्यो रागकेसरी । प्रसिद्धश्चरटो लोके, तस्यामात्यो विशेषतः ॥ ६६८ ॥ स कर्मपरिणामाख्यः, सार्वभौमो नरा ॥६६३॥ Jain Education For Private & Personel Use Only Silvww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy