SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ उपमिती स. ७-प्र. अकलङ्कयुतकोवि. दागमः श्रुतिसङ्गवृत्तान्त: 45पर SAMACHAR तुष्टः स बालिशः । ततश्च चिन्तयत्येवं, महाहर्षवशं गतः ॥ ६५१ ॥ धन्योऽहं कृतकृत्योऽहं, यस्येयं मम सुन्दरी । मनोहरा श्रुतिभर्या, संपन्ना पुण्यकर्मणः ॥ ६५२ ॥ ततस्तं तादृशं मत्वा, श्रुतौ स्नेहपरायणम् । बालिशं मधुरैर्वाक्यैः, स सङ्गः समभाषत ॥६५३॥ अत्यन्तसुन्दरो देव !, दैवेन हितकारिणा । देवेन सार्ध स्वामिन्याः, संयोगो घटितो ह्ययम् ॥ ६५४ ॥ तथाहि-रूपं वयः कुलं शीलं, लावण्यं च परस्परम् । दम्पत्योः प्रेमसहितमनुरूपं सुदुर्लभम् ॥ ६५५ ॥ एतच्च युवयोः सर्व, संपन्नं पुण्यकर्मणा । केवलं वर्धनीयोऽयं, प्रेमाबन्धो मनोहरः॥ ६५६ ॥ ततः स बालिशेनोक्तः, शठात्मा दासदारकः । यथा कथं स वर्धेत ?, स प्राह प्रियसेवनात् ॥ ६५७ ॥ बालिशः प्राह किं तस्याः, प्रियं ? सङ्ग! निवेद्यताम् । सङ्गेनोक्तं यथा देव!, प्रियोऽस्या मधुरो ध्वनिः ॥ ६५८ ॥ बालिशः प्राह यद्येवं, ततस्तस्य निषेवणम् । अश्रान्तः कारयाम्येनां, साधु साधु निवेदितम् ।। ६५९ ॥ महाप्रसाद इत्येवं, ब्रुवाणः स 8 च दारकः । स्नेहान्निवेशितस्तेन, हृदये बालिशेन भोः ! ॥ ६६० ॥ ततश्च काकलीगीतवेणुवीणाकलस्वनम् । तां श्रुतिं श्रावयन्नेष, बालिशो हृदि मोदते ॥ ६६१ ॥ चिन्तयति च-अहो सुखमहो स्वर्गस्तथाऽहो मम धन्यता । यस्येदृशी श्रुतिर्भार्या, सततानन्ददायिका ॥ ६६२ ॥ ततश्च-हृदये दारकं कृत्वा, तं सङ्गं स्नेहनिर्भरः । श्रुतेः स लालनं कुर्वन्नास्ते नित्यं कलखनैः ॥ ६६३ ॥ त्यक्तं तेनान्यकर्तव्यं, धर्माद्रेण स स्थितः । षिङ्गप्रायतया जातो, हास्यश्चासौ विवेकिनाम् ॥ ६६४ ॥ इतश्च कोविदेनापि, प्रनितोऽयं सदागमः ।। मह्यमेषा हिता भार्या, किं वा नेति ? निवेद्यताम् ॥ ६६५ ॥ ततः सदागमेनोक्तं, न हिता ते नरोत्तम! । ससङ्गेयं श्रुतिर्भार्या, तत्राकर्णय कारणम् ।। ६६६ ॥ इयं हि प्रहिता पूर्व, रागकेसरिमत्रिणा । इदं जगदशीकर्तु, पञ्चमानुषमध्यगा ।। ६६७ ।। इतश्च-स कर्मपरिणामस्य, भ्रातृव्यो रागकेसरी । प्रसिद्धश्चरटो लोके, तस्यामात्यो विशेषतः ॥ ६६८ ॥ स कर्मपरिणामाख्यः, सार्वभौमो नरा ॥६६३॥ Jain Education For Private & Personel Use Only Silvww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy