SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ उपमितौ स्तेन, देव! कालेन भूयसा । भविष्यत्येव निर्मिध्यं, सोऽस्मदर्शनलालसः ॥ ५७० ॥ ततश्चारित्रधर्मेण, सद्बोधं प्रति भाषितम् । साधुता घनवाहस.७प्र. भो गदितं साधु, ब्रूहि कः प्रेषणोचितः ॥ ५७१॥ ततश्चारित्रधर्माय, सद्बोधेन निवेदितम् । अयं सदागमस्तत्र, देव! प्रस्थापनीचितः नस्य सदा ॥ ५७२ ।। बहुशः परिचयस्तस्य, यदाऽनेन भविष्यति । तदाऽस्मदर्शनाकांक्षा, तस्य संपत्स्यते ध्रुवम् ॥ ५७३ ॥ स कर्मपरिणामा-8 गमेन सं. ॥६५८॥ ख्यस्ततोऽस्मान् ज्ञापयिष्यति । तस्मै वयं भविष्यामस्ततः शत्रुविधातुकाः॥ ५७४ ।। ततश्चारित्रधर्मेण, प्रपन्नं मत्रिभाषितम् । प्रवर्तितो ग्राम यथादिष्टं, मां प्रत्येष सदागमः ॥ ५७५ ॥ उक्तश्च राज्ञा सद्बोधः, किमेषोऽपि प्रहीयताम् ? । सम्यग्दर्शनसन्नामा, तस्य पार्श्वे महत्तमः ? ६॥ ५७६ ॥ सद्बोधेनोदितं देव!, चारुरेष महत्तमः । तस्य संसारिजीवस्य, गतः पार्श्वे न संशयः ॥ ५७७ ॥ किं च-सदागमोऽपि सफलो, युक्तोऽनेनोपपद्यते । अनेन सहितः सोऽस्मान् , सर्वानप्यवभोत्स्यते ॥ ५७८ ॥ किं तु नावसरोऽद्यापि, तेन नैष प्रहीयते । प्रस्तावरहितं कार्य, न कुर्वन्ति विचक्षणाः॥ ५७९ ॥ नृपतिनोक्तं-कदा पुनरहो मनिन् !, प्रस्तावोऽस्य भविष्यति । सद्बोधेनो-17 |दितं देव!, समाकर्णय कथ्यते ॥ ५८० ॥ यदा सदागमेनोच्चै, रञ्जितोऽसौ भविष्यति । पार्श्वे तस्य तदा देव!, प्रेषणीयो महत्तमः ॥ ५८१ ॥ भूयो भूयो युतोऽनेन, वीर्यमासादयेद्यदा । संसारिजीवः प्रस्तावस्तदाऽस्याप्युपपत्स्यते ॥ ५८२ ॥ ततोऽभ्युपगते वाक्ये,। |मत्रिणस्तेन भूभुजा । समागतः क्रमेणायं, मत्समीपे सदागमः ॥ ५८३ ॥ इतश्च-प्रयुक्तः पूर्वमेवासीन्महामोहादिमिर्बली । ज्ञानसंदूवरणो नाम, मत्समीपे नराधिपः ।। ५८४ ।। स हि चारित्रधर्मीयं, तिरोधत्ते सदा बलम् । महामोहमहानीकं, सर्वदा पोषयत्यलम् | दा॥ ५८५ ॥ एवं च स्थिते-तद्बलेनैव निश्चिन्ता, निर्नष्टभयकारणाः । स्थिता रिपून्निराकृत्य, महामोहादयः सदा ॥ ५८६ ॥ ततः ॥६५८ ॥ सदागमं वीक्ष्य, प्रत्यासन्नं समागतम् । ज्ञानसंवरणः शीघ्र, लीनलीनो व्यवस्थितः ॥ ५८७ ।। अथाकलङ्कः संप्राप्तो, ध्यानारूढस्य OC**GARAAN Jain Education HEO For Private & Personel Use Only x w .jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy