SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ उपमितौ स. ७-प्र. चित्तरक्षोपदेशः ॥६५६॥ भावचित्ताच, नास्ति भेदः परस्परम् । आत्माऽतो रक्षितस्तेन, चित्तं येनेह रक्षितम् ।। ५३३ ॥ अर्थार्थ भोगलौल्येन, यावद्धावति सर्वतः । चित्तं कुतस्त्यस्ते तावत्सुखगन्धोऽपि विद्यते ? ॥ ५३४ ॥ “यदेदं निःस्पृहं भूत्वा, परित्यज्य बहिर्धमम् । स्थिरं संपप्स्यते चित्तं, "तदा ते परमं सुखम् ॥ ५३५ ॥ भक्ते स्तोतरि कोपान्धे, निन्दाकर्तरि चोत्थिते । यदा समं भवेच्चित्तं, तदा ते परमं सुखम् ।।५३६॥ "स्वजने स्नेहसम्बद्धे, रिपुवर्गेऽपकारिणि । स्यात्तुल्यं ते यदा चित्तं, तदा ते परमं सुखम् ॥ ५३७ ॥ शब्दादिविषयग्रामे, सुन्दरेऽसु"न्दरेऽपि च । एकाकारं यदा चित्तं, तदा ते परमं सुखम् ॥ ५३८ ।। गोशीर्षचन्दनालेपिवासीच्छेदकयोर्यदा । अभिन्नचित्तवृत्तिः "स्यात्तदा ते परमं सुखम् ।। ५३९ ॥ सांसारिकपदार्थेषु, जलकल्पेषु ते यदा । अश्लिष्टं चित्तपद्मं स्यात्तदा ते परमं सुखम् ॥ ५४०॥ "दृष्टेषुद्दामलावण्यबन्धुराङ्गेषु योषिताम् । निर्विकारं यदा चित्तं, तदा ते परमं सुखम् ।। ५४१ ॥ यदा सत्त्वैकसारत्वादर्थकामपराजु-| "खम् । धर्मे रतं भवेञ्चित्तं, तदा ते परमं सुखम् ॥ ५४२ ॥ रजस्तमोविनिर्मुक्तं, स्तिमितोदधिसन्निभम् । निष्कल्लोलं यदा चित्तं, तदा "ते परमं सुखम् ॥ ५४३ ।। मैत्रीकारुण्यमाध्यस्थ्यप्रमोदोद्दामभावनम् । यदा मोकतानं तत्तदा ते परमं सुखम् ॥ ५४४ ॥” इति चित्तं विहायान्यो, नास्ति भो धनवाहन ! । नरस्य सुखसन्दोहे, सिद्धो हेतुर्जगत्रये ॥ ५४५ ॥ ततोऽहमकलङ्कस्य, तादृशैर्वचनामृतैः । सिक्तोऽगृहीतसङ्केते!, मनाक् प्रहादमागतः ॥ ५४६ ॥ यतः-निविडाऽपीह तादृक्षर्मम दृष्टान्तमुद्गरैः । विदारिताऽकलकेन, भूयसी कर्मपद्धतिः॥ ५४७ ॥ कर्मस्थितिमतीत्याहं, भूयिष्ठां पूर्ववर्तिनीम् । अभ्यर्णः संस्थितो भद्रे !, कर्मग्रन्थेः सुदुर्भिदः ।। ५४८ ॥ इतश्चयद्वामदेवप्रस्तावे, मया पूर्व निवेदितम् । स्मरसि त्वं विशालाक्षि!, बुधसूरिवचस्तदा ॥ ५४९ ॥ ततोऽगृहीतसङ्केता, तं प्रतीदमभाषत । न स्मरामि विशेषेण, स्मारयातस्त्वमेव मे ॥ ५५० ॥ ततः संसारिजीवेन, सा प्रोक्ता तारलोचना । इदं निवेदितं भद्रे!, स्ववृत्तं SCANA घनवाहन| भद्रकता ॥६५६॥ Jain Education i n For Private & Personel Use Only www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy