________________
उपमितौ
स. ७- प्र.
।। ६५५ ॥
Jain Education In
+4%
कामार्गमपि परित्यज्य स्वसामर्थ्येन स्थित्वा पञ्चहस्वाक्षरोद्गिरणमात्रकालं निरालम्बनतया गगने ततो विमुच्यापवरकमवरुज्य गर्भगृहकं परित्यज्य वानरकं विधायोत्प्लवनं लङ्घयित्वा हट्टमार्ग गन्तव्यमेकक्रमेणोड्डीय तत्र मठे स्थातव्यमनन्तकालं पूर्वगतलोकमध्येऽनुभाव्योऽनन्तानन्द इति, मयोक्तं —— यदाज्ञापयति नाथः, तदेवमनेनोपायेन भद्र! तद्वानरकं तत्र मठे नयनक्षमं गुरुभिर्मे निवेदितमिति – अथ निश्चित्य मौनीन्द्रं, सभावार्थमिदं वचः । ततोऽकलङ्कस्तं नत्वा मुनिमित्थमवोचत ।। ५१९ ॥ चारु चारूपदिष्टं ते, गुरुणा मुनिसतम! | सुन्दरं भवताऽऽरम्भि, युक्तमेतद्भवादृशाम् ॥ ५२० ॥ ततोऽगृहीतसङ्केते !, सम्यग्बोधविधित्सया । सोऽकलङ्को महाभागो, मां प्रतीदमभाषत ।। ५२१ ।। एवं स्फुटाक्षरैः सर्वं यदनेन निवेदितम् । तत्त्वया विदितं भद्र !, किं वा नो ? घनवाहन ! || ५२२ ॥ अनेन हि समाख्यातं, क्लेशनिर्मुक्तमञ्जसा । चित्तमेवात्मनो मुख्यं, संसारोत्तारकारणम् ||५२३|| तल्लेश्यापरिणामेन, क्लेशनिर्मोचनक्षमम् । विशुद्धाध्यवसायेषु, गच्छदेवोपपद्यते ॥ ५२४ ॥ किंच-न केवलं शिवस्योश्चैश्चित्तमेवेह कारणम् । भवस्यापि तदेवेति, मुनयः संप्रचक्षते || ५२५ || यतोऽपवरको योऽयं, यच्चेदं गर्भगेह्कम् । यच्च वानरकं भद्र !, तत्सर्वं प्राणिनां समम् ॥ ५२६ ॥ ततश्च — यास्ता भो वर्णिताः पूर्व, पदिकास्तत्र दर्दरे । तद्वानरं तदारूढं, विचित्रभवकारणम् ।। ५२७ ॥ यस्यां यस्यां तदारुह्य, करोत्युत्प्लवनं किल । शीघ्रं तत्पदिकास्थेषु, हट्टे नयति देहिनः ॥ ५२८ ॥ मयोक्तं – वयस्य ! कोऽस्य भाषितस्यार्थः ?, अकलङ्केनोक्तं — आकर्णय — यल्लेश्याध्यवसायेषु, म्रियन्ते किल देहिनः । आरूढचित्तास्तादृक्षु जायन्ते ते भवान्तरे || ५२९ || असङ्ख्याध्यवसायेषु, तश्चित्तं वर्तमानकम् । विचित्रयोनिरूपस्य, भवस्यास्य विधायकम् ।। ५३० ॥ सदोषं भवहेतुस्ते, ममान्येषां च देहिनाम् । निर्दोषं मोक्षहेतुस्ते, चित्तं भो घनवाहन ! ॥ ५३१ ॥ रक्षेदं चित्तसद्रत्नं, तस्मादन्तर्धनं परम् । धर्मोऽधर्मः सुखं दुःखं, यत्र सर्व प्रतिष्ठितम् ।। ५३२ || जीवाच्च
For Private & Personal Use Only
चित्तरक्षोपदेशः
।। ६५५ ।।
www.jainelibrary.org