SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ हट्टमार्गो उपमितौ | श्लेषमनुभविष्यति भूयिष्ठो रेणुनिचयः संजनिष्यते तत्सतताहादं भविष्यति शुद्धस्फटिकनिर्मलता । अन्यच्च-तत्र योषित्रितयसंपादिस.७प्र. तपदिकामार्गेऽनुक्षणमारोहतस्तस्य लगिष्यति मन्दः सुखकारितया शीतः सन्तापहारितया सुरभिः सद्भूतगुणगणकमलवनमकरन्दरेणु धारितया धर्मध्यानाभिधानः पवनः, तत्सम्बन्धे भविष्यति तत्सततं प्रमुदितं, इतश्च भीतमिव तेभ्योऽधस्तनेभ्यो मूषकमार्जारकोलोन्दु॥६५४॥ रवृश्चिककृकलासगृहकोकिलिकादिभ्यो नानाविधोपद्रवेभ्यः समुद्विग्नमिव तेन विततेन बहलान्धकारेण आद्यनारीत्रयविरचितं पदिकामा-8 गेमपहाय तत्र पश्चिमयोषित्रयविनिर्मिते भयविरहिते सततप्रकाशे पदिकामार्गे निलीनमास्ते तस्य वानरलीवरूपस्य सम्बन्धि वानरयूथं, 18| ततस्तत्रारोहतस्तस्य तदशेषमधिष्ठितं प्रशमदमसन्तोषसंयमसद्बोधादिनामकवानरपरिवारेण विशुद्धधर्ममहावानरेण समन्वितं धृतिश्रद्धासुतखासिकाविविदिषाविज्ञप्तिस्मृतिबुद्धिधारणामेधाक्षान्तिनिःस्पृहतादिसंज्ञाभिर्वरवानरीभिः सङ्कलं धैर्यवीयौदार्यगाम्भीर्यशौण्डीर्यज्ञानदर्शन-2 तपःसत्यवैराग्याकिञ्चन्यमार्दवार्जवब्रह्मशौचादिनामकैर्वरवानरलीवरूपैराविर्भविष्यति किंचित्कदाचित्कस्यांचित्पदिकायां, तच्च तस्य भवदीयवानरलीवरूपस्य शरीरं जीवितं सर्वस्वं सहजमतिहितकरणशीलं वर्तते, किंच-तद्वानरयूथमपि स्थिरं स्वरूपेण दिनकरभास्वरं व”नाहादहेतुर्जगतो निरभिलाषुकं तेषु गवाक्षद्वारस्थितेषु सहकाराम्ररूपतया कल्पितेषु विषयवृक्षेषु विगतस्पृहं तत्रार्थनिचयसम्पत्फलकुसुमरजःकचवरलोठने, ततस्तेनात्मीयवानरयूथेन सह मीलितं तत्तावकं चित्तवानरलीवमत्यन्तप्रमुदितं शीघ्रं यास्यत्युपर्युपरिपदिकासु यावत्पर्यन्तनारीविरचितपदिकामार्ग, तत्र च करिष्यति तस्य तद्वानरयूथं शुक्लध्यानाभिधानेन गोशीर्षचन्दनरसेन सेचनं, ततोऽतिकान्तेऽर्धमार्गमात्रे गाढानन्दनिर्भरं भविष्यति तन्निःसहं, ततो नारोक्ष्यत्युपरितनपदिकासु, तस्मिंश्चारूढे भद्र ! त्वमप्यारूढो भविष्यसि | यतस्ते जीवितमन्तर्धनमात्मभूतं च तद्वानरकं, ततो निःसहीभूतं तद्विमुच्य भवतोपरितनपदिकासु स्वयमेवारोहणीयं, ततः पर्यन्ते पदि NAGARCASRAK ॥६५४॥ 52-%% Jain Education Inter For Private & Personel Use Only jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy