SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ हट्टमार्गो उपमितौ | श्लेषमनुभविष्यति भूयिष्ठो रेणुनिचयः संजनिष्यते तत्सतताहादं भविष्यति शुद्धस्फटिकनिर्मलता । अन्यच्च-तत्र योषित्रितयसंपादिस.७प्र. तपदिकामार्गेऽनुक्षणमारोहतस्तस्य लगिष्यति मन्दः सुखकारितया शीतः सन्तापहारितया सुरभिः सद्भूतगुणगणकमलवनमकरन्दरेणु धारितया धर्मध्यानाभिधानः पवनः, तत्सम्बन्धे भविष्यति तत्सततं प्रमुदितं, इतश्च भीतमिव तेभ्योऽधस्तनेभ्यो मूषकमार्जारकोलोन्दु॥६५४॥ रवृश्चिककृकलासगृहकोकिलिकादिभ्यो नानाविधोपद्रवेभ्यः समुद्विग्नमिव तेन विततेन बहलान्धकारेण आद्यनारीत्रयविरचितं पदिकामा-8 गेमपहाय तत्र पश्चिमयोषित्रयविनिर्मिते भयविरहिते सततप्रकाशे पदिकामार्गे निलीनमास्ते तस्य वानरलीवरूपस्य सम्बन्धि वानरयूथं, 18| ततस्तत्रारोहतस्तस्य तदशेषमधिष्ठितं प्रशमदमसन्तोषसंयमसद्बोधादिनामकवानरपरिवारेण विशुद्धधर्ममहावानरेण समन्वितं धृतिश्रद्धासुतखासिकाविविदिषाविज्ञप्तिस्मृतिबुद्धिधारणामेधाक्षान्तिनिःस्पृहतादिसंज्ञाभिर्वरवानरीभिः सङ्कलं धैर्यवीयौदार्यगाम्भीर्यशौण्डीर्यज्ञानदर्शन-2 तपःसत्यवैराग्याकिञ्चन्यमार्दवार्जवब्रह्मशौचादिनामकैर्वरवानरलीवरूपैराविर्भविष्यति किंचित्कदाचित्कस्यांचित्पदिकायां, तच्च तस्य भवदीयवानरलीवरूपस्य शरीरं जीवितं सर्वस्वं सहजमतिहितकरणशीलं वर्तते, किंच-तद्वानरयूथमपि स्थिरं स्वरूपेण दिनकरभास्वरं व”नाहादहेतुर्जगतो निरभिलाषुकं तेषु गवाक्षद्वारस्थितेषु सहकाराम्ररूपतया कल्पितेषु विषयवृक्षेषु विगतस्पृहं तत्रार्थनिचयसम्पत्फलकुसुमरजःकचवरलोठने, ततस्तेनात्मीयवानरयूथेन सह मीलितं तत्तावकं चित्तवानरलीवमत्यन्तप्रमुदितं शीघ्रं यास्यत्युपर्युपरिपदिकासु यावत्पर्यन्तनारीविरचितपदिकामार्ग, तत्र च करिष्यति तस्य तद्वानरयूथं शुक्लध्यानाभिधानेन गोशीर्षचन्दनरसेन सेचनं, ततोऽतिकान्तेऽर्धमार्गमात्रे गाढानन्दनिर्भरं भविष्यति तन्निःसहं, ततो नारोक्ष्यत्युपरितनपदिकासु, तस्मिंश्चारूढे भद्र ! त्वमप्यारूढो भविष्यसि | यतस्ते जीवितमन्तर्धनमात्मभूतं च तद्वानरकं, ततो निःसहीभूतं तद्विमुच्य भवतोपरितनपदिकासु स्वयमेवारोहणीयं, ततः पर्यन्ते पदि NAGARCASRAK ॥६५४॥ 52-%% Jain Education Inter For Private & Personel Use Only jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy