________________
उपमितौ कमसंख्येयाः समस्ता अप्यसंख्येया विद्यन्ते अध्यवसायस्थानाभिधानाः पदिकाः, तया प्रथमया विरचितास्तावदसंख्येयाः प्रथमाः कृष्ण- लेश्यापास.७-प्र. वर्णाः एवं द्वितीयया द्वितीया नीलावभासाः तृतीयया तृतीयाः कपोतामाः चतुर्थ्या च चतुर्थ्यस्तेजोभाखराः पञ्चम्या पञ्चम्यो धवल- दकाः
पद्मच्छायाः षष्ठया षष्ठयो विशुद्धस्फटिकनिर्मलास्ताः पदिका इति, तत्राद्ययोषित्रितयनिर्मितासु पदिकासु वर्तमानं तद्वानरलीवरूपमुत्प्लुत्यो॥६५३॥
प्लुत्य बलात् धावति गवाक्षकैस्तेष्वाम्रकेषु लुठति तत्र रजःकचवरे गुण्ड्यते तेन रजसा भिद्यते तैः स्नेहनिष्यन्दबिन्दुभिः, ततस्तथा
क्षतशतैर्जर्जरीभूतं तेषां मूषकमार्जारकोलोन्दुरादीनां सर्वेषामुपद्रवविशेषाणामभिभवनीयं भवति, ततः कचिन्नष्टमिव लक्ष्यते कचिद् घू-18 लर्णितमवतिष्ठते क्वचित्क्रूरतां धारयति सर्वथा सततसंतप्तं तदास्त इति तवापि चानन्तदुःखपरम्पराकारणं संपद्यते, तस्माद्भवता तद्वानर-3
लीवं ताभ्यः पदिकाभ्यो निःसारणीयमुपर्यारोहणीय, ततश्चतुर्थयोषिनिर्मितासु तासु पदिकासु प्रतिक्षणमारोहतस्तस्य वानरलीवरूपस्य स्तोकीभविष्यति सन्तापः प्रतनुतां यास्यन्ति बाधाकारिणस्ते मूषकादयः क्षुद्रोपद्रवाः मनाक् स्वल्पीभविष्यत्याम्रकाभिलाषः ततः शोषमीषदुपयास्यति सा मकरन्दनिष्यन्दाता परिशटिष्यति किंचिद्रजः ततो लप्स्यते मनाक सुखासिका भविष्यति तदपि तेजोभाखरं वर्णेन, ततः पञ्चमाङ्गनाघटितपदिकासु भवता तदारोहणीयं, तासु चारोहतस्तस्य स्तोकतरीभविष्यति संतापः प्रतनुतरा भविष्यन्त्युपद्रवाः स्वल्पतरः संपत्स्यतेऽपथ्याम्रकाभिलाषः शुष्कतरं भविष्यति शरीरकं निपतिष्यति तस्माद् बहुतरो रेणुनिचयः, ततो ४ मनागस्य रोक्ष्यन्ति क्षतविशेषाः आस्कन्दिष्यतीदं महाहादं धारयिष्यति धवलतां वर्धिष्यति शरीरेण भविष्यति विशालतरं, ततः षष्ठललनाविरचितपदिकासु भवता तदारोहणीयं, तासु चारोहतस्तस्य स्तोकतमीभविष्यति दुःखासिका प्रलयं यास्यन्त्युपद्रवविशेषाः अत्यन्त
P ६५३॥ स्वल्पतमीभविष्यत्याम्रकाभिलाषः त्रुटिष्यति रजःकचवरलोठनेच्छा सर्वथा शोषमुपयास्यति मकरन्दरसासा, ततः शुष्कतरशरीराद्वि
Jain Education Inter
For Private & Personel Use Only
N
w.jainelibrary.org