SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ उपमितौ स. ७-प्र. लेश्यापादका ॥६५२॥ BHASKAR सर्वमेवोपपद्यते । तयोरपि च तद्भावः, परमार्थेन नान्यथा ॥ ५०९॥ साध्यमर्थ परिज्ञाय, यदि सम्यक् प्रवर्तते । ततस्तत्साधयत्येव, तथा चाह महामतिः ॥ ५१०॥ सम्यक्प्रवृत्तिः साध्यस्य, प्राप्युपायोऽभिधीयते । तदप्राप्तावुपायत्वं, न तस्य उपपद्यते ॥५१॥ |असाध्यारम्भिणस्तेन, सम्यग्ज्ञानं न जातुचित् । साध्यानारम्भिणश्चेति, द्वयमन्योऽन्यसंश्रयम् ।। ५१२ ।। अत एवागमज्ञस्य, या क्रिया सा क्रियोच्यते । आगमज्ञोऽपि यस्तस्यां, यथाशक्त्या प्रवर्तते ।। ५१३ ।। चिन्तामणिस्वरूपज्ञो, दोर्गत्योपहतो न हि । तत्प्राप्त्युपायवैचित्र्ये, सत्यन्यत्र प्रवर्तते ॥५१४॥ न चासौ तत्स्वरूपज्ञो, योऽन्यत्रापि प्रवर्तते । मालतीगन्धगुणविदर्भे न रमते ह्यलिः॥५१५॥ तदेवं स भवाभावान्मुक्तिमाप्नोति सन्नरः । अलमत्र प्रसङ्गेन, सम्यगभ्यूहितं त्वया ॥ ५१६ ।। तदिदं गुरुभिर्भद्र!, कर्तव्यं मे निवेदितम् । तस्य वानरलीवस्य, सततं परिरक्षणम् ॥ ५१७ ॥ अकलङ्केनोक्तं-केनोपायेन तन्नाथ!, वानरं नयनक्षमम् । शिवालयमठे तत्र, गुरुणा प्रतिपादितम् ॥ ५१८ ॥ मुनिनोक्तं—आकर्णयतु भद्रः, प्रोक्तोऽहं तदाऽनेन भगवता यथा-सौम्य ! तत्र गर्भगृहके लेश्या इति | गोत्रेण प्रसिद्धाः कृष्णनीलकपोततैजसीप शुक्लनामानः षडङ्गनाः परिपालिका विद्यन्ते, ताश्च तत्रैव गर्भगृहके समुत्पन्नास्तस्यैव समृद्ध्या संवर्धितास्तस्यैव चोपचयकारिण्यो वर्तन्ते, तासां च मध्ये प्रथमास्तिस्रो नार्यो यथाक्रम क्रूरतमक्रूरतरक्रूराः स्वरूपेण कारणमनर्थपरम्पराणां शत्रुभूतास्तस्य वानरलीवरूपस्याशुभवृद्धिहेतुभूतास्तस्य गर्भगृहकस्य धारिकास्तवाप्यत्रैव दुःखसङ्कले हट्टमार्गे निवारिकाः मठगमनस्य, उपरितनाः पुनर्भद्र ! तिम्रो नार्यों यथाक्रमं शुद्धशुद्धतरशुद्धतमाः स्वरूपेण कारणमाबादपरम्पराणां बन्धुभूतास्तस्य वानरलीवरूपस्य शुद्धवृद्धिहेतुभूतास्तस्य गर्भगृहकस्य निःसारिकास्तवाप्यस्मादसातसन्ततिपूरिताद्धट्टमार्गादनुकूलकारिका मठगमनस्य, ताभिश्च षभिरपि नारीभिर्विरचितस्तत्र गर्भगृहके स्वसामर्थ्यादुपर्युपर्यारोहणार्थ परिणामो नाम दर्दरः, तत्र च ताभिरेव नारीभिर्यथानुपूर्व उपर्युपरि विरचिताः प्रत्ये २॥ Jan Education For Private Personel Use Only Jw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy