SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ -800 उपमिती स. ७-प्र. याकाङ्का ॥६५॥ ॥ ४९० ॥ तञ्चित्तं नियमाजीवो, जीवश्चित्तं न वा भवेत् । यतः केवलिनो जीवा, भावचित्तविवर्जिताः ॥ ४९१ ॥ एवं च स्थिते- विपर्यासमिथ्याज्ञानविपर्यासाजीवो रागादिसंगतः। सततं दुःखरूपेषु, सुखबुद्ध्या प्रवर्तते ॥ ४९२ ॥ ततः कर्माणुसङ्घातमादत्ते स्नेह-द रागविषतन्तुभिः । ततो जन्मान्तरारम्भ, विधत्ते तद्वशादयम् ॥ ४९३ ॥ पुनस्तत्र विपर्यासः, पुना रागादिसन्ततिः । पुनश्च विषयाकांक्षा, पुनस्ते स्नेहतन्तवः ॥ ४९४ ॥ पुनश्च कर्मग्रहणं, पुनर्जन्मसमुद्भवः । पुनस्तत्र विपर्यासः, पुना रागादिकः क्रमः ॥ ४९५ ॥ एवं या- स्नेहकर्मवदविच्छिन्नं, विपर्यासादिचक्रकम् । जीवस्य वर्तते तावदनिष्ठा भवपद्धतिः ॥ ४९६ ॥ इदमभ्यूहितं नाथ!, मया चक्रकम जसा । यु- चक्र तमेतदयुक्तं वा, यूयं विज्ञातुमर्हथ ।। ४९७ ।। मुनिनोक्तं महाभाग!, युक्तमतन्न संशयः । कथं वाऽयुक्तवेत्तारो, भवन्तीह भवादृशाः ? ॥ ४९८ ॥ मयाऽपीदं ततो ज्ञातं, गुरुभिश्च समर्थितम् । अनिष्ठितभवे हेतुर्विपर्यासादिचक्रकम् ॥ ४९९ ॥ अत एव परित्याज्यो, विपर्यासो विवेकिना । तदुच्छेदे प्रलीयन्ते, निर्मूलत्वेन शेषकाः ॥ ५० ॥ अयमेव विवेकोऽत्र, तत्त्वज्ञानमिदं मतम् । अयं निरास्रवोद | विवेक धर्मो, यद्विपर्यासवर्जनम् ।। ५०१ ॥ अविपर्यस्तविज्ञातुः, पुरुषस्याप्रमादिनः । मनोविकारजालं हि, स्वस्माद्भिन्न प्रकाश्यते ॥ ५०२ ॥ ततो विविक्तमात्मानं, सदानन्दं प्रपश्यतः । नास्य संजायते द्वेषो, दुःखे नापि सुखे स्पृहा ॥ ५०३ ॥ निरभिष्वङ्ग-18 चित्तोऽसौ, ततः कर्माणुसञ्चयम् । विषयनेहमुक्तत्वान्न विधत्ते कदाचन ॥ ५०४ ॥ ततोऽसौ बीजविरहान्निःस्पृहत्वाद्भवान्तरम् । मुक्तवन्नारभेतातश्चक्रकं विनिवर्तते ॥ ५०५॥ एवं च स्थिते-यत्कर्मबन्धनं प्रोक्तं, यच्चेदं भवचक्रकम् । अनयोर्यो विजानाति, प्रवर्तननिवर्तने ॥ ५०६ ॥ स किं शरीरे भोगेषु, धने वा भवभाविनि । अन्यत्र वा पदार्थे भो !, रागं कुर्यात्कदाचन ? ॥ ५०७ ॥ युग्मम् । ॥६५१॥ यश्च सांसारिके कुर्यात्पदार्थे चित्तनिवृतिम् । नाद्यापि तत्त्वतो ज्ञातं, तेनेदं चक्रकद्वयम् ॥ ५०८ ॥ यतः-फलं ज्ञानक्रियायोगे, SACROSSAGA * Jain Education Internatio For Private & Personel Use Only Xbrainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy