SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ -800 उपमिती स. ७-प्र. याकाङ्का ॥६५॥ ॥ ४९० ॥ तञ्चित्तं नियमाजीवो, जीवश्चित्तं न वा भवेत् । यतः केवलिनो जीवा, भावचित्तविवर्जिताः ॥ ४९१ ॥ एवं च स्थिते- विपर्यासमिथ्याज्ञानविपर्यासाजीवो रागादिसंगतः। सततं दुःखरूपेषु, सुखबुद्ध्या प्रवर्तते ॥ ४९२ ॥ ततः कर्माणुसङ्घातमादत्ते स्नेह-द रागविषतन्तुभिः । ततो जन्मान्तरारम्भ, विधत्ते तद्वशादयम् ॥ ४९३ ॥ पुनस्तत्र विपर्यासः, पुना रागादिसन्ततिः । पुनश्च विषयाकांक्षा, पुनस्ते स्नेहतन्तवः ॥ ४९४ ॥ पुनश्च कर्मग्रहणं, पुनर्जन्मसमुद्भवः । पुनस्तत्र विपर्यासः, पुना रागादिकः क्रमः ॥ ४९५ ॥ एवं या- स्नेहकर्मवदविच्छिन्नं, विपर्यासादिचक्रकम् । जीवस्य वर्तते तावदनिष्ठा भवपद्धतिः ॥ ४९६ ॥ इदमभ्यूहितं नाथ!, मया चक्रकम जसा । यु- चक्र तमेतदयुक्तं वा, यूयं विज्ञातुमर्हथ ।। ४९७ ।। मुनिनोक्तं महाभाग!, युक्तमतन्न संशयः । कथं वाऽयुक्तवेत्तारो, भवन्तीह भवादृशाः ? ॥ ४९८ ॥ मयाऽपीदं ततो ज्ञातं, गुरुभिश्च समर्थितम् । अनिष्ठितभवे हेतुर्विपर्यासादिचक्रकम् ॥ ४९९ ॥ अत एव परित्याज्यो, विपर्यासो विवेकिना । तदुच्छेदे प्रलीयन्ते, निर्मूलत्वेन शेषकाः ॥ ५० ॥ अयमेव विवेकोऽत्र, तत्त्वज्ञानमिदं मतम् । अयं निरास्रवोद | विवेक धर्मो, यद्विपर्यासवर्जनम् ।। ५०१ ॥ अविपर्यस्तविज्ञातुः, पुरुषस्याप्रमादिनः । मनोविकारजालं हि, स्वस्माद्भिन्न प्रकाश्यते ॥ ५०२ ॥ ततो विविक्तमात्मानं, सदानन्दं प्रपश्यतः । नास्य संजायते द्वेषो, दुःखे नापि सुखे स्पृहा ॥ ५०३ ॥ निरभिष्वङ्ग-18 चित्तोऽसौ, ततः कर्माणुसञ्चयम् । विषयनेहमुक्तत्वान्न विधत्ते कदाचन ॥ ५०४ ॥ ततोऽसौ बीजविरहान्निःस्पृहत्वाद्भवान्तरम् । मुक्तवन्नारभेतातश्चक्रकं विनिवर्तते ॥ ५०५॥ एवं च स्थिते-यत्कर्मबन्धनं प्रोक्तं, यच्चेदं भवचक्रकम् । अनयोर्यो विजानाति, प्रवर्तननिवर्तने ॥ ५०६ ॥ स किं शरीरे भोगेषु, धने वा भवभाविनि । अन्यत्र वा पदार्थे भो !, रागं कुर्यात्कदाचन ? ॥ ५०७ ॥ युग्मम् । ॥६५१॥ यश्च सांसारिके कुर्यात्पदार्थे चित्तनिवृतिम् । नाद्यापि तत्त्वतो ज्ञातं, तेनेदं चक्रकद्वयम् ॥ ५०८ ॥ यतः-फलं ज्ञानक्रियायोगे, SACROSSAGA * Jain Education Internatio For Private & Personel Use Only Xbrainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy