SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ उपमिती स. ७-प्र. चित्तानु शासन "तम् ॥ ४७४ ॥ अनन्तदर्शनज्ञानवीर्यानन्दप्रपूरिते । चित्त! कृत्वाऽऽत्मनि स्थानं, भव शीघ्रं निराकुलः॥४७५ ॥ अत्र "ते तिष्ठतो नित्यं, भोगस्नेहस्य शोषणे । संजाते जायतेऽवश्यं, रजःपातो न संशयः ॥ ४७६ ।। ततश्च-संक्लिष्टवासनाजन्या, व्रणा "रोहन्ति दारुणाः । ततस्तद्वाधनिर्मुक्तं, न त भोगेषु रज्यसे । ४७७ ॥ पिण्डीप्राया मुधैः प्रोक्ता, भोगाश्चित्तक्षतेषु ते । अत एव मु"हूर्त ते, भासन्ते स्वास्थ्यकारिणः ॥४७८॥ मुहूर्तसुखमाधाय, ते भुक्ताः क्षतवर्धनम् । संक्लिष्टवासनाध्यानाजनयन्ति सुदा"रुणम् ॥ ४७९ ॥ इतरथा-संक्लिष्टवासनोन्मुक्ते, रूढे तव शरीरके । निर्बाधे सततानन्दे, तदिच्छैव न जायते ॥४८० ॥ तदेवं “संस्थिते चित्त !, हित्वा सर्व बहिज्रमम् । स्वरूपे सततं तिष्ठ, लीनं हन्त निरातुरम् ॥ ४८१ ॥” एवं च शिक्षयित्वेदं, चित्तं सम्यगविधानतः । अस्यैव रक्षणोद्युक्तो, भविष्यामि समाहितः ॥४८२॥ तथाऽनुशिष्टमप्येतञ्चलत्येव दुरात्मकम् । यत्नान्निराकरिष्यामि, बहिर्धा- वत्पुनः पुनः ॥४८३॥ कषायनोकषायाद्या, ये चोपद्रवकारिणः । अस्य तानपि निःशेषान् , हनिष्याम्यप्रमादतः ॥ ४८४ ॥ विद्योदयेन ध्यानेन, प्रतिपक्षनिषेवया । यास्यन्ति प्रलयं सर्वे, तूर्ण रागाद्युपद्रवाः ॥ ४८५ ।। ततस्तेषु प्रलीनेषु, भविष्यन्ति न बाधकाः । परीषहोपसर्गाद्या, बहिस्थास्तदुपद्रवाः ॥ ४८६ ॥ आत्मारामं ततो भूत्वा, मच्चित्तमबहिश्वरम् । रागाद्युपद्रवैर्मुक्तं, मोक्षायैव घटिष्यते ॥ ४८७ ।। एवं परिकलय्याहं, हृदये सुविनिश्चितः । तदेव कुर्वन्ननिशमेष तिष्ठामि साम्प्रतम् ॥ ४८८ ।। अकलङ्केनोक्तं-साधु भदन्त ! साधु सम्यग् बुद्धं भदन्तेन गुरुवचनं सम्यक् चारब्धं तदाचरणं मयाऽपीदं चक्रकं भगवन्निवेदितमाकान्यदपि चक्रकमभ्यूहितं तद्युक्तमयुक्तं वाऽऽकर्णयतु भगवान् , मुनिनोक्तं-निवेदयतु भद्रः, अकलङ्केनोक्तं-चित्तमेतद् द्विधा तावद्व्यतो भावतस्तथा । द आद्यं पर्याप्तियुक्तात्माऽऽगृहीतं पुद्गलात्मकम् ।। ४८९ ।। तत्र प्रयुक्तो जीवस्तु, भावचित्तं निगद्यते । तत्कार्मणशरीरस्थं, तेन भिन्नं निवेद्यते विपर्यासरागविषयाकाङ्क्षास्नेहकर्मचक्रकं ॥६५०॥ R-AC nin Education Inted For Private & Personel Use Only Kinjainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy