SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ उपमिती स. ७-प्र. चित्तानु शासन "तम् ॥ ४७४ ॥ अनन्तदर्शनज्ञानवीर्यानन्दप्रपूरिते । चित्त! कृत्वाऽऽत्मनि स्थानं, भव शीघ्रं निराकुलः॥४७५ ॥ अत्र "ते तिष्ठतो नित्यं, भोगस्नेहस्य शोषणे । संजाते जायतेऽवश्यं, रजःपातो न संशयः ॥ ४७६ ।। ततश्च-संक्लिष्टवासनाजन्या, व्रणा "रोहन्ति दारुणाः । ततस्तद्वाधनिर्मुक्तं, न त भोगेषु रज्यसे । ४७७ ॥ पिण्डीप्राया मुधैः प्रोक्ता, भोगाश्चित्तक्षतेषु ते । अत एव मु"हूर्त ते, भासन्ते स्वास्थ्यकारिणः ॥४७८॥ मुहूर्तसुखमाधाय, ते भुक्ताः क्षतवर्धनम् । संक्लिष्टवासनाध्यानाजनयन्ति सुदा"रुणम् ॥ ४७९ ॥ इतरथा-संक्लिष्टवासनोन्मुक्ते, रूढे तव शरीरके । निर्बाधे सततानन्दे, तदिच्छैव न जायते ॥४८० ॥ तदेवं “संस्थिते चित्त !, हित्वा सर्व बहिज्रमम् । स्वरूपे सततं तिष्ठ, लीनं हन्त निरातुरम् ॥ ४८१ ॥” एवं च शिक्षयित्वेदं, चित्तं सम्यगविधानतः । अस्यैव रक्षणोद्युक्तो, भविष्यामि समाहितः ॥४८२॥ तथाऽनुशिष्टमप्येतञ्चलत्येव दुरात्मकम् । यत्नान्निराकरिष्यामि, बहिर्धा- वत्पुनः पुनः ॥४८३॥ कषायनोकषायाद्या, ये चोपद्रवकारिणः । अस्य तानपि निःशेषान् , हनिष्याम्यप्रमादतः ॥ ४८४ ॥ विद्योदयेन ध्यानेन, प्रतिपक्षनिषेवया । यास्यन्ति प्रलयं सर्वे, तूर्ण रागाद्युपद्रवाः ॥ ४८५ ।। ततस्तेषु प्रलीनेषु, भविष्यन्ति न बाधकाः । परीषहोपसर्गाद्या, बहिस्थास्तदुपद्रवाः ॥ ४८६ ॥ आत्मारामं ततो भूत्वा, मच्चित्तमबहिश्वरम् । रागाद्युपद्रवैर्मुक्तं, मोक्षायैव घटिष्यते ॥ ४८७ ।। एवं परिकलय्याहं, हृदये सुविनिश्चितः । तदेव कुर्वन्ननिशमेष तिष्ठामि साम्प्रतम् ॥ ४८८ ।। अकलङ्केनोक्तं-साधु भदन्त ! साधु सम्यग् बुद्धं भदन्तेन गुरुवचनं सम्यक् चारब्धं तदाचरणं मयाऽपीदं चक्रकं भगवन्निवेदितमाकान्यदपि चक्रकमभ्यूहितं तद्युक्तमयुक्तं वाऽऽकर्णयतु भगवान् , मुनिनोक्तं-निवेदयतु भद्रः, अकलङ्केनोक्तं-चित्तमेतद् द्विधा तावद्व्यतो भावतस्तथा । द आद्यं पर्याप्तियुक्तात्माऽऽगृहीतं पुद्गलात्मकम् ।। ४८९ ।। तत्र प्रयुक्तो जीवस्तु, भावचित्तं निगद्यते । तत्कार्मणशरीरस्थं, तेन भिन्नं निवेद्यते विपर्यासरागविषयाकाङ्क्षास्नेहकर्मचक्रकं ॥६५०॥ R-AC nin Education Inted For Private & Personel Use Only Kinjainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy