________________
म
उपमिती अङ्गाङ्गीभावमाधत्ते, सा भोगस्नेहबासना । ततः संसारसंस्काराः, संजायन्ते क्षतोपमाः ॥ ४५७ ॥ ततोऽत्र प्रभवन्त्येव,
चित्तवानस. ७-प्र. सर्वे रागाद्युपद्रवाः । मूषकादिसमास्ते च, विवर्धन्ते प्रतिक्षणम् ॥ ४५८ ॥ भूयश्च प्रेर्यमाणं तैर्विषयेष्वेव धावति । पुनः
रलीवरक्षा कर्म पुनः स्नेहः, पुनः सर्वेऽप्युपद्रवाः ॥ ४५९ ॥ अदृष्टतलपर्यन्ते, तदेवंविधचक्रके । निमग्नं दुःखकोटीभिश्चित्तमेतन्न मुच्यते ॥६४९॥
४॥४६० ॥ वनदण्डः समाख्यातो, गुरुणाऽनेन रक्षकः । गृहीतो वीर्यहस्तेन, सोऽप्रमादोऽस्य सत्तमः ॥ ४६१ ॥ ततश्चैवं करिष्यामि,
सततं सुसमाहितः । गुरूद्दिष्टाप्रमादस्य, तस्याहमनुशीलनम् ॥ ४६२ ॥ यदुत-"स्वप्नोऽयमिन्द्रजालं वा, हरिश्चन्द्रपुरं तथा । शरीरं "भूतयो भोगा, यच्चान्यत्स्वजनादिकम् ॥ ४६३ ॥ एवं निश्चित्य सद्बुद्ध्या, भावयिष्यामि तत्त्वतः । ततः संसारजालान्मे, चित्तबन्धोका
चित्तानु| "निवर्त्यति ॥ ४६४ ॥ अनाद्यभ्यासयोगेन, निस्सरच पुनः पुनः । आत्मन्येवाऽऽहितं चित्तं, धारयिष्यामि यत्नतः ॥ ४६५ ।। तथेदं
शासनं | "शिक्षयिष्यामि, चित्तं किं निर्गतेन ते ? । बहिः स्वरूपे तिष्ठ त्वं, येनानन्दे निलीयसे ।। ४६६ ॥ संसारस्ते बहिश्चारः, स च दुःखभ"राकरः । मोक्षः स्वरूपेऽवस्थानं, स चानन्दभराकरः ॥ ४६७ ॥ ततो बहिर्ने युक्तं ते, निर्गन्तुं सुखलिप्सया । युक्तमात्मन्यवस्थानं, "चित्त! हित्वा बहिर्धमम् ।। ४६८॥ आत्मन्यवस्थितस्येह, जन्मन्येव सुखं तव । बहिनिःसरतोऽत्रैव, दुःखं तद्यदि बुध्यसे ॥४६९॥ |"तथाहि-सर्व दःखं परायत्तं सर्वमात्मवशं सुखम् । बहिश्च ते पराधीनं, स्वाधीनं सुखमात्मनि ॥ ४७० ॥ अन्यच्च-य"दात्मनो बहिर्भूतं, वस्तुजातं तव प्रियम् । तत्सर्व नश्वरं दुःखं, निःस्वभावं मलाविलम् ॥ ४७१॥ अतस्तदर्थ हे चित्त,! किं
"वृथा परिताम्यसि । किं वाऽऽत्मानं विमुच्येत्थं, बंभ्रमीपि पुनः पुनः ॥४७२॥ यदि स्यात्सुन्दरं किंचिद्वहिस्तस्य निवारणम् । संभवेत्तव ह. भ. ५५||"दुःखा(सौख्या)य, तच्च चित्त! न विद्यते ॥४७३॥ दह्यमानं पुनर्पोरै गाङ्गारैर्निवारितम् । आत्मन्यानन्दरूपे त्वं, मुधा ताम्यसि धारि-1
का॥६४९॥
Jain Education in
For Private Personel Use Only
Kiraw.jainelibrary.org