________________
अपमितौ स. प्र.
॥६४७॥
|ऽपीदं वानरलीवरूपं विह्वलयन्ति गन्धेनापि घूर्णयन्ति दर्शनेनापि तरलयन्ति स्मरणेनापि मारयन्ति स्पर्शनेनास्वादनेन च पुनर्यदिदं चित्तवान
निपातयन्ति तत्र किमाश्चर्य ?, ते चास्यामीभिरुपद्रवरुपद्रुतस्य विह्वलतया सहकाराम्रका इति प्रतिभासन्ते, ततो निर्गच्छति तदभिमुखं रलीवरक्षा न तैर्गवाक्षकैर्गाढाभिलाषेण रज्यते सुन्दराणीति बुद्ध्या केषुचित्तत्फलेषु विद्वेष्टि न सुन्दराणीति बुद्ध्या कानिचित्तत्फलानि बंभ्रमीति लौ-16
ल्यातिरेकेणानवरतं तच्छाखान्तरेषु लुठति नितरामर्थनिचयसंज्ञे तदधोवर्तिनि पत्रफलकुसुमरजःकचवरे, ततस्तेषु परिभ्रमदिदमु
गण्ड्य कर्मपरमाणुनिचयसंज्ञेन तदीयफलकुसुमरेणुना आर्दीक्रियते भोगस्नेहनामकेन मकरन्दबिन्दुनिस्यन्दसन्दोहवर्षेण, ततो मया गृहीदतवचनभावार्थेन चिन्तितं-अये! वृक्षास्तावदेते सामान्यरूपाः शब्दरूपरसगन्धस्पर्शा भविष्यन्ति कुसुमानि पुनरपरिस्फुटास्तद्विशेषाः
फलानि तु परिस्फुटास्तद्विशेषा एव शाखान्तराणि पुनस्तदाधारवस्तुस्थानानि, तेषु च सञ्चरणं चित्तवानरलीवरूपस्य लोकोपचारेणाभिहितं, यदाहुलौंकिकाः 'अमुत्र गतं मे चित्त'मिति, एवं च स्थिते बुद्धं मयेदं तावत्समस्तं मुनिना भाषितं भोत्स्यते चेति विचिन्य मया-15 |ऽभिहितं-भदन्त! ततस्ततः?, गुरुराह-ततो भद्र! भोगस्नेहार्दीभूते कर्मपरमाणुप्रचयरजोगुण्डिते तत्र चित्तवानरलीवरूपशरीरे विकलतया स्थैर्यस्य भेदकतया विषरूपत्त्वात्तस्य रजसः संजायन्ते क्षतानि संपद्यते जर्जरीभावः व्याप्यते समन्तान्मध्यदेशः दह्यते विषरूपेण तेन रजसा, ततो भजते कृष्णरूपतां तच्छरीरं कचित्संपद्यते रक्तीभावः, ततस्तत्र गर्भगृहके वर्तमानं तत्तेषां सर्वेषां पूर्वोक्तानामुपद्रव-13 |विशेषाणां गम्यं भवति ततो बाध्यते नानाविधं तैरिति, तदेष भद्र! तस्य चित्तवानरलीवरूपस्य संरक्षणोपायो यदुत-गृहीत्वा स्ववी-15 | येसंज्ञेनात्महस्तेन दृढमप्रमादनामकं वनदण्डं तञ्चित्तवानरलीवरूपं तैरक्षनामकैर्गवा:विषयवृक्षफलभक्षणस्पृहया निर्गच्छदास्फोट्य निवारणीयं तथापि चटुलतया निस्सरत्पुनः पुनराक्रोशनीयं, ततो निषिद्धबहिर्गमनस्य निवृत्तसहकाराम्रकाभिलाषस्य तस्य शोषमुपयास्यत्यसौ3
ANSARGAMACHARACTERESCREE
॥६४७॥
For Private Personal Use Only
w
Jain Education Intematon
.jainelibrary.org