________________
उपमितौ स.७प्र.
हट्टमार्ग
तोदितिभवस्य
॥६४६॥
चित्तवानरलीवरक्षा
| यद्बलेन मठे तत्र, भगवन्गन्तुमिच्छसि ॥४४५॥ मुनिनोक्तं आकर्णय-अभिहितोऽहं भगवता तदाऽनेन गुरुणा यथा सौम्य ! अस्ति तावद्भवतः परिग्रहे कायाभिधानः पञ्चाक्षनामगवाक्षो निवासार्थमपवरकः, तत्र च कार्मणशरीरनामकमपवरकगवाक्षाभिमुखक्षयोपशमाभिधानरन्ध्र गर्भगृहकं, तत्र च चित्ताभिधानमतितरलं वानरलीवरूपं ?, मयोक्तं वाढं समस्तमस्ति, गुरुणोक्तं यद्येवं ततो गृहीतेनैव तेन सर्वेण तावद्भवता प्रत्रजितव्यं यतो न शक्यते तदकाण्ड एव विरहयितुं, मयोक्तं यदाज्ञापयति नाथः, ततः प्रव्रजितोऽहं, गुरुणोक्तं-भद्र ! त्वयेदं वानरलीवरूपं सुरक्षितं कर्तव्यं, मयोक्तं यदादिशति नाथः, केवलं कुतो भयमिति कथयन्तु भगवन्तः, ततोऽभिहितमनेन मुनिना-यथा “सौम्य ! विद्यन्ते तत्र गर्भगृहके वसतोऽस्य भूयांसः खलूपद्रवकारिणो यतो भक्ष्यते वराकमिदं |"कषायनामकैश्चटुलमूषकैः तरलतरीक्रियते नोकषायाख्यैर्वेधपटुभिर्दुष्टवृश्चिकैः खाद्यते संज्ञाख्याभिः क्रूरमार्जारीभिः विलुप्यते रागद्वेष"नामकाभ्यां भीषणकोलोन्दुराभ्यां ग्रस्यते महामोहसंज्ञेनातिरौद्रमार्जारेण उपताप्यते परीषहोपसर्गाद्वैः सततं त्रोटयद्भिर्दशमशकैः विह्व"लीक्रियते दुष्टाभिसन्धिवितर्काख्यैर्वज्रतुण्डैर्भक्षयद्भिर्मत्कुणैः उपद्रूयतेऽलीकचिन्तासंज्ञाभिर्गृहकोकिलिकाभिः अभिभूयते दारुणाकारैः | "प्रमादककलासैः तुद्यतेऽनवरतमविरतिजाम्बालनामकेन षट्पदिकाजालेन अन्धीक्रियते मिध्यादर्शनसंज्ञेनातिधोरेण तमसा" तदेवमेते भद्र! तत्र गर्भगृहके सततस्थायिनोऽस्य वराकस्योपद्रवविशेषाः, तदिदमेवमादिभिरुपद्रवरुपद्रुतं चित्ताभिधानं वानरलीवरूपं वेदनाभरनिःसहतया निपतति रौद्रध्यानाभिधाने सुज्वलितखादिराङ्गारकुण्डे कचित्पुनः प्रविशत्यनेककुविकल्पाख्यलूतातन्तुजालावनद्धमुखे भीषणे गाढमार्तध्यानाभिधाने महाबिले, तदिदमप्रमत्तेन भवता सततं रक्षणीयं, मयोक्तं-भदन्त ! कः पुनरस्य रक्षणोपायः, गुरुराह-भद्र! ये ते विद्यन्ते तत्रापवरके पञ्च गवाक्षास्तेषां द्वारेषु विषयनामानः पञ्चैव विषवृक्षा विद्यन्ते, ते चातिदारुणाः स्वरूपेण, यतस्ते नाना
॥६४६॥
in Education Inter
For Private Personal use only
nelibrary org