SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ उपमितौ स.७प्र. तोदिति ॥६४५॥ सुदीर्घाभिर्भवावपनपंक्तिभिः । भूरिभिः सुखदुःखाख्यैः, स पण्यैः परिपूरितः ॥ ४२७ ॥ आकुलैः सञ्चयोयुक्तैः, क्रयविक्रयतत्परैः।। हट्टमार्गजीववाणिजकैर्नित्यं, स्वार्थनिष्टैर्निषेवितः ॥ ४२८ ॥ पुण्यापुण्याभिधानैश्च, स्तोकोत्कृष्टविमध्यमैः । मूल्यैः पण्यानि लभ्यन्ते, स्वानुरूपाणि तत्र भोः! ॥ ४२९ ॥ नित्यं व्यवहरत्येष, सदैवोद्घाटितापणः । अपुण्यजीवरोरैश्च, भूरिभिः परिपूरितः ॥ ४३०॥ महामोहा- भवस्य | भिधानोऽत्र, बलाधिकृत उच्यते । कामकोपादयस्तस्य, पुरुषाः परिचारकाः ॥ ४३१ ॥ घोरैर्जीवाधमर्णानां, कर्माख्यैर्धनिकैः सदा। क्रियते धरणकं तत्र, दुर्मोचमतिदारुणम् ॥ ४३२ ॥ सदा कलकलायन्ते, लोकोद्वेगविधायिनः । मत्ताः कषायनामानस्तत्र दुर्दान्तडिम्भकाः ॥ ४३३ ॥ अनेकाश्चर्यभूयिष्ठो, विचित्रः सतताकुलः । नान्यो जगति तादृक्षो, हट्टमार्गो नरोत्तम! ॥ ४३४ ॥ केवलं ते मया लोका, यावत्सम्यङ् निरीक्षिताः । हट्टे सर्वेऽपि विज्ञातास्तावत्यन्तदुःखिताः ॥ ४३५ ॥ अथानेन महाभाग!, मुनिना मम लोचने । |अजिते कृपया भद्र!, ज्ञानाजनशलाकया ॥ ४३६ ॥ ततो विमलदृष्टित्वादृष्टो दूरे व्यवस्थितः । मया हट्टात्समुत्तीर्णो, मठो नाम शिवालयः ॥ ४३७ ॥ तत्रानन्ता मया दृष्टाः, सततानन्दसुन्दराः । सद्बुद्धिदृष्ट्या भो लोका!, मुक्ताख्या बाधवर्जिताः ॥ ४३८ ॥ ततो मे तत्र संपन्नो, हट्टमार्गे बृहत्तमः । वसतो भद्र ! निर्वेदो, मठोन्माथक एव च ॥ ४३९ ॥ ततश्चायं महाभागो, मुनिः प्रोक्तस्तदा मया । हट्टमेनं परित्यज्य, मठे यामः शिवालये ॥ ४४०॥ यतः-नास्ति मे क्षणमप्यत्र, रतिर्नाथ! सुदारुणे । हट्टमार्गे ब्रजामोऽतस्त्वया सार्ध शिवालये ॥४४१॥ मुनिनोक्तं यदीच्छा ते, मठे गन्तुं नरोत्तम! । गृहाण मामिकां दीक्षा, ततोऽस्य प्रापिकामरम्॥ ४४२ ॥ मयोक्तं दीयतां नाथ!, मा विलम्बो विधीयताम् । ततो दत्ता ममानेन, दीक्षेयं पारमेश्वरी ॥ ४४३ ।। उपदिष्टं च कर्तव्यं, मठप्रापण ।। ६४५॥ कारणम् । अहं तदेव कुर्वाणो, भद्र ! तिष्ठामि साम्प्रतम् ॥ ४४४ ॥ अकलङ्केनोक्तं-कीदृशं नाथ! कर्तव्यं, गुरुणा ते निवेदितम् ।। ॐॐॐॐॐॐॐ Jain Education International For Private & Personal Use Only djainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy